001 भीष्म उवाच 001a विमानस्थौ तु तौ राजल्ँलुब्धको वै ददर्श ह 001c दृष्ट्वा तौ दम्पती दुःखादचिन्तयत सद्गतिम् 002a कीदृशेनेह तपसा गच्छेयं परमां गतिम् 002c इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे 003a महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवनः 003c निश्चेष्टो मारुताहारो निर्ममः स्वर्गकाङ्क्षया 004a ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्मविभूषितम् 004c नानाद्विजगणाकीर्णं सरः शीतजलं शुभम् 004e पिपासार्तोऽपि तद्दृष्ट्वा तृप्तः स्यान्नात्र संशयः 005a उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः 005c उपसर्पत संहृष्टः श्वापदाध्युषितं वनम् 006a महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह 006c प्रविशन्नेव च वनं निगृहीतः स कण्टकैः 007a स कण्टकविभुग्नाङ्गो लोहितार्द्रीकृतच्छविः 007c बभ्राम तस्मिन्विजने नानामृगसमाकुले 008a ततो द्रुमाणां महतां पवनेन वने तदा 008c उदतिष्ठत सङ्घर्षात्सुमहान्हव्यवाहनः 009a तद्वनं वृक्षसङ्कीर्णं लताविटपसङ्कुलम् 009c ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः 010a सज्वालैः पवनोद्धूतैर्विस्फुलिङ्गैः समन्वितः 010c ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् 011a ततः स देहमोक्षार्थं सम्प्रहृष्टेन चेतसा 011c अभ्यधावत संवृद्धं पावकं लुब्धकस्तदा 012a ततस्तेनाग्निना दग्धो लुब्धको नष्टकिल्बिषः 012c जगाम परमां सिद्धिं तदा भरतसत्तम 013a ततः स्वर्गस्थमात्मानं सोऽपश्यद्विगतज्वरः 013c यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् 014a एवं खलु कपोतश्च कपोती च पतिव्रता 014c लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा 015a यापि चैवंविधा नारी भर्तारमनुवर्तते 015c विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता 016a एवमेतत्पुरा वृत्तं लुब्धकस्य महात्मनः 016c कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा 017a यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् 017c नाशुभं विद्यते तस्य मनसापि प्रमाद्यतः 018a युधिष्ठिर महानेष धर्मो धर्मभृतां वर 018c गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः 018e निष्कृतिर्न भवेत्तस्मिन्यो हन्याच्छरणागतम्