001 भीष्म उवाच 001a ततो गते शाकुनिके कपोती प्राह दुःखिता 001c संस्मृत्य भर्तारमथो रुदती शोकमूर्छिता 002a नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे 002c सर्वा वै विधवा नारी बहुपुत्रापि खेचर 002e शोच्या भवति बन्धूनां पतिहीना मनस्विनी 003a लालिताहं त्वया नित्यं बहुमानाच्च सान्त्विता 003c वचनैर्मधुरैः स्निग्धैरसकृत्सुमनोहरैः 004a कन्दरेषु च शैलानां नदीनां निर्झरेषु च 004c द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय 005a आकाशगमने चैव सुखिताहं त्वया सुखम् 005c विहृतास्मि त्वया कान्त तन्मे नाद्यास्ति किञ्चन 006a मितं ददाति हि पिता मितं माता मितं सुतः 006c अमितस्य तु दातारं भर्तारं का न पूजयेत् 007a नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम् 007c विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः 008a न कार्यमिह मे नाथ जीवितेन त्वया विना 008c पतिहीनापि का नारी सती जीवितुमुत्सहेत् 009a एवं विलप्य बहुधा करुणं सा सुदुःखिता 009c पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम् 010a ततश्चित्राम्बरधरं भर्तारं सान्वपश्यत 010c विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः 011a चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् 011c विमानशतकोटीभिरावृतं पुण्यकीर्तिभिः 012a ततः स्वर्गगतः पक्षी भार्यया सह सङ्गतः 012c कर्मणा पूजितस्तेन रेमे तत्र स भार्यया