001 भीष्म उवाच 001a ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः 001c कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह 002a किमीदृशं नृशंसेन मया कृतमबुद्धिना 002c भविष्यति हि मे नित्यं पातकं हृदि जीवतः 003a स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह 003c धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् 003e शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः 004a नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः 004c दत्तः स्वमांसं ददता कपोतेन महात्मना 005a सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च 005c उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा 006a अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम् 006c यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा 007a क्षुत्पिपासातपसहः कृशो धमनिसन्ततः 007c उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् 008a अहो देहप्रदानेन दर्शितातिथिपूजना 008c तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः 008e दृष्टो हि धर्मो धर्मिष्ठैर्यादृशो विहगोत्तमे 009a एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः 009c महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः 010a ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा 010c तांश्च बद्धा कपोतान्स सम्प्रमुच्योत्ससर्ज ह