001 भीष्म उवाच 001a अथ वृक्षस्य शाखायां विहङ्गः ससुहृज्जनः 001c दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः 002a तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत 002c प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत 003a वातवर्षं महच्चासीन्न चागच्छति मे प्रिया 003c किं नु तत्कारणं येन साद्यापि न निवर्तते 004a अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने 004c तया विरहितं हीदं शून्यमद्य गृहं मम 005a यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा 005c अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे 006a पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी 006c सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी 007a अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता 007c यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि 008a भार्या हि परमो नाथः पुरुषस्येह पठ्यते 008c असहायस्य लोकेऽस्मिल्ँलोकयात्रासहायिनी 009a तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च 009c नास्ति भार्यासमं किञ्चिन्नरस्यार्तस्य भेषजम् 010a नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः 010c नास्ति भार्यासमो लोके सहायो धर्मसाधनः 011a एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै 011c गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् 012a न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति 012c अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः 013a इति सञ्चिन्त्य दुःखार्ता भर्तारं दुःखितं तदा 013c कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् 014a हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा 014c शरणागतसन्त्राता भव कान्त विशेषतः 015a एष शाकुनिकः शेते तव वासं समाश्रितः 015c शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय 016a यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् 016c शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् 017a यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः 017c सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् 018a यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते 018c स प्रेत्य लभते लोकानक्षयानिति शुश्रुम 019a स त्वं सन्तानवानद्य पुत्रवानपि च द्विज 019c तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै 019e पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा 020a इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी 020c अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत 021a स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् 021c हर्षेण महता युक्तो बाष्पव्याकुललोचनः 022a तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा 022c पूजयामास यत्नेन स पक्षी पक्षिजीविनम् 023a उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम् 023c सन्तापश्च न कर्तव्यः स्वगृहे वर्तते भवान् 024a तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि 024c प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः 025a शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः 025c पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः 026a पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी 026c तस्य नायं न च परो लोको भवति धर्मतः 027a तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि 027c तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः 028a तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् 028c बाधते खलु मा शीतं हिमत्राणं विधीयताम् 029a एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले 029c यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ 030a स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् 030c ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् 031a सुसन्दीप्तं महत्कृत्वा तमाह शरणागतम् 031c प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः 032a स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् 032c अग्निप्रत्यागतप्राणस्ततः प्राह विहङ्गमम् 033a दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् 033c तद्वचः स प्रतिश्रुत्य वाक्यमाह विहङ्गमः 034a न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम् 034c उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः 035a सञ्चयो नास्ति चास्माकं मुनीनामिव कानने 035c इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् 036a कथं नु खलु कर्तव्यमिति चिन्तापरः सदा 036c बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः 037a मुहूर्ताल्लब्धसञ्ज्ञस्तु स पक्षी पक्षिघातकम् 037c उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय 038a इत्युक्त्वा शुष्कपर्णैः स सम्प्रज्वाल्य हुताशनम् 038c हर्षेण महता युक्तः कपोतः पुनरब्रवीत् 039a देवानां च मुनीनां च पितॄणां च महात्मनाम् 039c श्रुतपूर्वो मया धर्मो महानतिथिपूजने 040a कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते 040c निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने 041a ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव 041c तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते 042a अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् 042c चिन्तयामास मनसा किमिदं नु कृतं मया 043a अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा 043c अधर्मः सुमहान्घोरो भविष्यति न संशयः 044a एवं बहुविधं भूरि विललाप स लुब्धकः 044c गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्