001 युधिष्ठिर उवाच 001a पितामह महाप्राज्ञ सर्वशास्त्रविशारद 001c शरणं पालयानस्य यो धर्मस्तं वदस्व मे 002 भीष्म उवाच 002a महान्धर्मो महाराज शरणागतपालने 002c अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम 003a नृगप्रभृतयो राजन्राजानः शरणागतान् 003c परिपाल्य महाराज संसिद्धिं परमां गताः 004a श्रूयते हि कपोतेन शत्रुः शरणमागतः 004c पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः 005 युधिष्ठिर उवाच 005a कथं कपोतेन पुरा शत्रुः शरणमागतः 005c स्वमांसैर्भोजितः कां च गतिं लेभे स भारत 006 भीष्म उवाच 006a शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् 006c नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह 007a इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः 007c भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ 008a तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् 008c इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप 009a धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् 009c शृणुष्वावहितो राजन्गदतो मे महाभुज 010a कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसम्मतः 010c चचार पृथिवीं पापो घोरः शकुनिलुब्धकः 011a काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः 011c यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः 012a नैव तस्य सुहृत्कश्चिन्न सम्बन्धी न बान्धवः 012c स हि तैः सम्परित्यक्तस्तेन घोरेण कर्मणा 013a स वै क्षारकमादाय द्विजान्हत्वा वने सदा 013c चकार विक्रयं तेषां पतङ्गानां नराधिप 014a एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः 014c अगमत्सुमहान्कालो न चाधर्ममबुध्यत 015a तस्य भार्यासहायस्य रममाणस्य शाश्वतम् 015c दैवयोगविमूढस्य नान्या वृत्तिररोचत 016a ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः 016c पातयन्निव वृक्षांस्तान्सुमहान्वातसम्भ्रमः 017a मेघसङ्कुलमाकाशं विद्युन्मण्डलमण्डितम् 017c सञ्छन्नं सुमुहूर्तेन नौस्थानेनेव सागरः 018a वारिधारासमूहैश्च सम्प्रहृष्टः शतक्रतुः 018c क्षणेन पूरयामास सलिलेन वसुन्धराम् 019a ततो धाराकुले लोके सम्भ्रमन्नष्टचेतनः 019c शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना 020a नैव निम्नं स्थलं वापि सोऽविन्दत विहङ्गहा 020c पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै 021a पक्षिणो वातवेगेन हता लीनास्तदाभवन् 021c मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे 022a महता वातवर्षेण त्रासितास्ते वनौकसः 022c भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने 023a स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् 023c सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् 024a ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह 024c मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः 025a दिशोऽवलोकयामास वेलां चैव दुरात्मवान् 025c दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो 025e कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा 026a सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् 026c शरणं यामि यान्यस्मिन्दैवतानीह भारत 027a स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले 027c दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा