001 युधिष्ठिर उवाच 001a यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् 001c अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये 002a सम्मुह्यामि विषीदामि धर्मो मे शिथिलीकृतः 002c उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् 003 भीष्म उवाच 003a नैतच्छुद्धागमादेव तव धर्मानुशासनम् 003c प्रज्ञासमवतारोऽयं कविभिः सम्भृतं मधु 004a बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः 004c नैकशाखेन धर्मेण यात्रैषा सम्प्रवर्तते 005a बुद्धिसञ्जननं राज्ञां धर्ममाचरतां सदा 005c जयो भवति कौरव्य तदा तद्विद्धि मे वचः 006a बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः 006c धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः 007a नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते 007c दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता 008a अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति 008c बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत 009a पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव 009c जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा 010a सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे 010c तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम् 011a परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः 011c वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते 012a आजिजीविषवो विद्यां यशस्कामाः समन्ततः 012c ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः 013a अपक्वमतयो मन्दा न जानन्ति यथातथम् 013c सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः 014a परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः 014c विज्ञानमथ विद्यानां न सम्यगिति वर्तते 015a निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये 015c वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव 015e तान्विद्यावणिजो विद्धि राक्षसानिव भारत 016a व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते 016c न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम् 017a इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम् 017c न त्वेव वचनं किञ्चिदनिमित्तादिहोच्यते 018a स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे 018c लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः 019a समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः 019c अमर्षाच्छास्त्रसम्मोहादविज्ञानाच्च भारत 020a शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् 020c आगतागमया बुद्ध्या वचनेन प्रशस्यते 021a अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते 021c अनपाहतमेवेदं नेदं शास्त्रमपार्थकम् 022a दैतेयानुशनाः प्राह संशयच्छेदने पुरा 022c ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत् 023a तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि 023c अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात् 024a उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे 024c अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम् 024e यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते 025a अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् 025c तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति 026a यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः 026c एषैव खलु मर्यादा यामयं परिवर्जयेत् 027a तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत 027c अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव 028a यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव 028c विहरन्ति परस्वानि स वै क्षत्रियपांसनः 029a कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् 029c प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् 030a विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः 030c उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् 031a नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते 031c उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव 032a कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम् 032c उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै 033a अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् 033c इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ 034 युधिष्ठिर उवाच 034a अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत् 034c पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह 035 भीष्म उवाच 035a ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः 035c श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् 036a या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा 036c क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप 037a तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः 037c प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम्