001 युधिष्ठिर उवाच 001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 001c अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते 002a मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये 002c राजभिः पीडिते लोके चोरैर्वापि विशाम्पते 003a सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च 003c कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत 004a अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव 004c निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम् 005a सम्प्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते 005c अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते 006a सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने 006c केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते 007a अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप 007c कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह 008a कथं च राजा वर्तेत लोके कलुषतां गते 008c कथमर्थाच्च धर्माच्च न हीयेत परन्तप 009 भीष्म उवाच 009a राजमूला महाराज योगक्षेमसुवृष्टयः 009c प्रजासु व्याधयश्चैव मरणं च भयानि च 010a कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ 010c राजमूलानि सर्वाणि मम नास्त्यत्र संशयः 011a तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके 011c विज्ञानबलमास्थाय जीवितव्यं तदा भवेत् 012a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 012c विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे 013a त्रेताद्वापरयोः सन्धौ पुरा दैवविधिक्रमात् 013c अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी 014a प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते 014c त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने 015a न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः 015c जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः 016a नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः 016c नद्यः सङ्क्षिप्ततोयौघाः क्वचिदन्तर्गताभवन् 017a सरांसि सरितश्चैव कूपाः प्रस्रवणानि च 017c हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात् 018a उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा 018c निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला 019a उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा 019c निवृत्तपूगसमया सम्प्रनष्टमहोत्सवा 020a अस्थिकङ्कालसङ्कीर्णा हाहाभूतजनाकुला 020c शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना 021a क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः 021c परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना 022a गतदैवतसङ्कल्पा वृद्धबालविनाकृता 022c गोजाविमहिषैर्हीना परस्परहराहरा 023a हतविप्रा हतारक्षा प्रनष्टौषधिसञ्चया 023c श्यावभूतनरप्राया बभूव वसुधा तदा 024a तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर 024c बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम् 025a ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः 025c आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः 026a विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः 026c क्षुधा परिगतो धीमान्समन्तात्पर्यधावत 027a स कदाचित्परिपतञ्श्वपचानां निवेशनम् 027c हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित् 028a विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम् 028c वराहखरभग्नास्थिकपालघटसङ्कुलम् 029a मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् 029c सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम् 030a उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम् 030c लोहघण्टापरिष्कारं श्वयूथपरिवारितम् 031a तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः 031c आहारान्वेषणे युक्तः परं यत्नं समास्थितः 032a न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः 032c मांसमन्नं मूलफलमन्यद्वा तत्र किञ्चन 033a अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः 033c पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे 034a चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत् 034c कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम 035a स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः 035c चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च 036a स चिन्तयामास तदा स्तेयं कार्यमितो मया 036c न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे 037a आपत्सु विहितं स्तेयं विशिष्टसमहीनतः 037c परं परं भवेत्पूर्वमस्तेयमिति निश्चयः 038a हीनादादेयमादौ स्यात्समानात्तदनन्तरम् 038c असम्भवादाददीत विशिष्टादपि धार्मिकात् 039a सोऽहमन्तावसानानां हरमाणः परिग्रहात् 039c न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् 040a एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः 040c तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत 041a स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे 041c शनैरुत्थाय भगवान्प्रविवेश कुटीमठम् 042a स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः 042c परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः 043a कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे 043c जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः 044a विश्वामित्रोऽहमित्येव सहसा तमुवाच सः 044c सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा 045a चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः 045c शयनादुपसम्भ्रान्त इयेषोत्पतितुं ततः 046a स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः 046c उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् 047a विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् 047c क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम् 048a अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा 048c स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् 049a अटन्भैक्षं न विन्दामि यदा युष्माकमालये 049c तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् 050a तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः 050c क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम् 051a अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः 051c यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः 052a तमुवाच स चण्डालो महर्षे शृणु मे वचः 052c श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे 053a मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः 053c तस्याप्यधम उद्देशः शरीरस्योरुजाघनी 054a नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम् 054c चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः 055a साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे 055c न मांसलोभात्तपसो नाशस्ते स्यान्महामुने 056a जानतोऽविहितो मार्गो न कार्यो धर्मसङ्करः 056c मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः 057a विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ 057c क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः 058a निराहारस्य सुमहान्मम कालोऽभिधावतः 058c न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे 059a येन तेन विशेषेण कर्मणा येन केनचित् 059c अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत् 060a ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः 060c ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा 061a यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया 061c जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् 062a सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम् 062c व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् 063a जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च 063c तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः 064 श्वपच उवाच 064a नैतत्खादन्प्राप्स्यसे प्राणमन्यं नायुर्दीर्घं नामृतस्येव तृप्तिम् 064c भिक्षामन्यां भिक्ष मा ते मनोऽस्तु श्वभक्षणे श्वा ह्यभक्षो द्विजानाम् 065 विश्वामित्र उवाच 065a न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक नान्नं न च मेऽस्ति वित्तम् 065c क्षुधार्तश्चाहमगतिर्निराशः श्वमांसे चास्मिन्षड्रसान्साधु मन्ये 066 श्वपच उवाच 066a पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज 066c यदि शास्त्रं प्रमाणं ते मा भक्ष्ये मानसं कृथाः 067 विश्वामित्र उवाच 067a अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै 067c अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् 068 श्वपच उवाच 068a भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि 068c न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् 069 विश्वामित्र उवाच 069a शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये 069c परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम् 070 श्वपच उवाच 070a असता यत्समाचीर्णं न स धर्मः सनातनः 070c नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः 071 विश्वामित्र उवाच 071a न पातकं नावमतमृषिः सन्कर्तुमर्हसि 071c समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी 072 श्वपच उवाच 072a यद्ब्राह्मणार्थे कृतमर्थितेन तेनर्षिणा तच्च भक्ष्याधिकारम् 072c स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्हि स रक्षितव्यः 073 विश्वामित्र उवाच 073a मित्रं च मे ब्राह्मणश्चायमात्मा प्रियश्च मे पूज्यतमश्च लोके 073c तं भर्तुकामोऽहमिमां हरिष्ये नृशंसानामीदृशानां न बिभ्ये 074 श्वपच उवाच 074a कामं नरा जीवितं सन्त्यजन्ति न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र 074c सर्वान्कामान्प्राप्नुवन्तीह विद्वन्प्रियस्व कामं सहितः क्षुधा वै 075 विश्वामित्र उवाच 075a स्थाने तावत्संशयः प्रेत्यभावे निःसंशयं कर्मणां वा विनाशः 075c अहं पुनर्वर्त इत्याशयात्मा मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम् 076a बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो मोहादेकत्वं यथा चर्म चक्षुः 076c यद्यप्येनः संशयादाचरामि नाहं भविष्यामि यथा त्वमेव 077 श्वपच उवाच 077a पतनीयमिदं दुःखमिति मे वर्तते मतिः 077c दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे 078 विश्वामित्र उवाच 078a पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि 078c न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः 079 श्वपच उवाच 079a सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज 079c तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः 080 विश्वामित्र उवाच 080a सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर 080c जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम् 081 श्वपच उवाच 081a नैवोत्सहे भवते दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् 081c उभौ स्यावः स्वमलेनावलिप्तौ दाताहं च त्वं च विप्र प्रतीच्छन् 082 विश्वामित्र उवाच 082a अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् 082c प्रपूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि 083 श्वपच उवाच 083a आत्मैव साक्षी किल लोककृत्ये त्वमेव जानासि यदत्र दुष्टम् 083c यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् 084 विश्वामित्र उवाच 084a उपादाने खादने वास्य दोषः कार्यो न्यायैर्नित्यमत्रापवादः 084c यस्मिन्न हिंसा नानृते वाक्यलेशो भक्ष्यक्रिया तत्र न तद्गरीयः 085 श्वपच उवाच 085a यद्येष हेतुस्तव खादनस्य न ते वेदः कारणं नान्यधर्मः 085c तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र दोषं न पश्यामि यथेदमात्थ 086 विश्वामित्र उवाच 086a न पातकं भक्षणमस्य दृष्टं सुरां पीत्वा पततीतीह शब्दः 086c अन्योन्यकर्माणि तथा तथैव न लेशमात्रेण कृत्यं हिनस्ति 087 श्वपच उवाच 087a अस्थानतो हीनतः कुत्सिताद्वा तं विद्वांसं बाधते साधुवृत्तम् 087c स्थानं पुनर्यो लभते निषङ्गात्तेनापि दण्डः सहितव्य एव 088 भीष्म उवाच 088a एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा 088c विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् 089a ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः 089c सदारस्तामुपाकृत्य वने यातो महामुनिः 090a एतस्मिन्नेव काले तु प्रववर्षाथ वासवः 090c सञ्जीवयन्प्रजाः सर्वा जनयामास चौषधीः 091a विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः 091c कालेन महता सिद्धिमवाप परमाद्भुताम् 092a एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः 092c सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् 093a एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् 093c जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति 094a तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये 094c बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना