001 युधिष्ठिर उवाच 001a युगक्षयात्परिक्षीणे धर्मे लोके च भारत 001c दस्युभिः पीड्यमाने च कथं स्थेयं पितामह 002 भीष्म उवाच 002a हन्त ते कथयिष्यामि नीतिमापत्सु भारत 002c उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः 003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003c भरद्वाजस्य संवादं राज्ञः शत्रुन्तपस्य च 004a राजा शत्रुन्तपो नाम सौवीराणां महारथः 004c कणिङ्कमुपसङ्गम्य पप्रच्छार्थविनिश्चयम् 005a अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते 005c वर्धितं पालयेत्केन पालितं प्रणयेत्कथम् 006a तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः 006c उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम् 007a नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः 007c अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः 008a नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः 008c तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत् 009a एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः 009c तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते 010a छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः 010c कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ 011a मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः 011c ततः सहायान्पक्षं च सर्वमेवानुसारयेत् 012a सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् 012c आपदां पदकालेषु कुर्वीत न विचारयेत् 013a वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः 013c श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत् 014a सपत्नसहिते कार्ये कृत्वा सन्धिं न विश्वसेत् 014c अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः 015a शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् 015c नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव 016a यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् 016c अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् 017a अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् 017c अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता 018a वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः 018c अथैनमागते काले भिन्द्याद्घटमिवाश्मनि 019a मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् 019c न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम् 020a नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् 020c अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते 020e तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् 021a कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः 021c व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत् 022a उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् 022c कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत् 023a नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः 023c न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः 024a नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु 024c गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः 025a बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् 025c वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् 026a पानमक्षास्तथा नार्यो मृगया गीतवादितम् 026c एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान् 027a कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् 027c अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत् 028a देशं कालं समासाद्य विक्रमेत विचक्षणः 028c देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत् 029a कालाकालौ सम्प्रधार्य बलाबलमथात्मनः 029c परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत् 030a दण्डेनोपनतं शत्रुं यो राजा न नियच्छति 030c स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा 031a सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः 031c आमः स्यात्पक्वसङ्काशो न च शीर्येत कस्यचित् 032a आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् 032c विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः 033a भीतवत्संविधातव्यं यावद्भयमनागतम् 033c आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् 034a न संशयमनारुह्य नरो भद्राणि पश्यति 034c संशयं पुनरारुह्य यदि जीवति पश्यति 035a अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् 035c पुनर्वृद्धिक्षयात्किञ्चिदभिवृत्तं निशामयेत् 036a प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् 036c अनागतसुखाशा च नैष बुद्धिमतां नयः 037a योऽरिणा सह सन्धाय सुखं स्वपिति विश्वसन् 037c स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते 038a कर्मणा येन तेनेह मृदुना दारुणेन वा 038c उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् 039a ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् 039c आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः 040a चारः सुविहितः कार्य आत्मनोऽथ परस्य च 040c पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत् 041a उद्यानेषु विहारेषु प्रपास्वावसथेषु च 041c पानागारेषु वेशेषु तीर्थेषु च सभासु च 042a धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः 042c समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि 043a न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् 043c विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत् 044a विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना 044c अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे 045a अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् 045c भयं हि शङ्किताज्जातं समूलमपि कृन्तति 046a अवधानेन मौनेन काषायेण जटाजिनैः 046c विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः 047a पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् 047c अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः 048a गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः 048c उत्पथप्रतिपन्नस्य दण्डो भवति शासनम् 049a प्रत्युत्थानाभिवादाभ्यां सम्प्रदानेन कस्यचित् 049c प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः 050a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 050c नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम् 051a नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते 051c सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा 052a अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि 052c दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम् 053a सङ्ग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता 053c निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता 054a प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् 054c अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा 055a निमन्त्रयेत सान्त्वेन सम्मानेन तितिक्षया 055c आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता 056a न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् 056c अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् 056e दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते 057a त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च 057c अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत् 058a ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च 058c पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः 059a वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः 059c आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः 060a नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् 060c कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम् 061a वधेन च मनुष्याणां मार्गाणां दूषणेन च 061c आकराणां विनाशैश्च परराष्ट्रं विनाशयेत् 062a गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः 062c अनुद्विग्नः काकशङ्की भुजङ्गचरितं चरेत् 063a श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च 063c अमात्यान्परिरक्षेत भेदसङ्घातयोरपि 064a मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च 064c तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत् 065a मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् 065c नासाध्यं मृदुना किञ्चित्तस्मात्तीक्ष्णतरं मृदु 066a काले मृदुर्यो भवति काले भवति दारुणः 066c स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति 067a पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् 067c दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः 068a न तत्तरेद्यस्य न पारमुत्तरेन्न तद्धरेद्यत्पुनराहरेत्परः 068c न तत्खनेद्यस्य न मूलमुत्खनेन्न तं हन्याद्यस्य शिरो न पातयेत् 069a इतीदमुक्तं वृजिनाभिसंहितं न चैतदेवं पुरुषः समाचरेत् 069c परप्रयुक्तं तु कथं निशामयेदतो मयोक्तं भवतो हितार्थिना 070a यथावदुक्तं वचनं हितं तदा निशम्य विप्रेण सुवीरराष्ट्रियः 070c तथाकरोद्वाक्यमदीनचेतनः श्रियं च दीप्तां बुभुजे सबान्धवः