001 युधिष्ठिर उवाच 001a उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु 001c कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् 002a विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम् 002c कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव 003a एतन्मे संशयं छिन्धि मनो मे सम्प्रमुह्यति 003c अविश्वासकथामेतामुपश्रुत्य पितामह 004 भीष्म उवाच 004a शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने 004c पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव 005a काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी 005c पूजनी नाम शकुनी दीर्घकालं सहोषिता 006a रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः 006c सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा 007a अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् 007c समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत 008a समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम् 008c पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह 009a फलमेकं सुतायादाद्राजपुत्राय चापरम् 009c अमृतास्वादसदृशं बलतेजोविवर्धनम् 009e तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात् 010a धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा 010c शून्ये तु तमुपादाय पक्षिणं समजातकम् 010e हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत् 011a अथ सा शकुनी राजन्नागमत्फलहारिका 011c अपश्यन्निहतं पुत्रं तेन बालेन भूतले 012a बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम् 012c पूजनी दुःखसन्तप्ता रुदती वाक्यमब्रवीत् 013a क्षत्रिये सङ्गतं नास्ति न प्रीतिर्न च सौहृदम् 013c कारणे सम्भजन्तीह कृतार्थाः सन्त्यजन्ति च 014a क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु 014c अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् 015a अहमस्य करोम्यद्य सदृशीं वैरयातनाम् 015c कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः 016a सहसञ्जातवृद्धस्य तथैव सहभोजिनः 016c शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम् 017a इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा 017c भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् 018a इच्छयैव कृतं पापं सद्य एवोपसर्पति 018c कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम् 019a पापं कर्म कृतं किञ्चिन्न तस्मिन्यदि विद्यते 019c निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु 020 ब्रह्मदत्त उवाच 020a अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया 020c उभयं तत्समीभूतं वस पूजनि मा गमः 021 पूजन्युवाच 021a सकृत्कृतापराधस्य तत्रैव परिलम्बतः 021c न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् 022a सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत् 022c क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति 023a अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति 023c पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति 024a सर्वेषां कृतवैराणामविश्वासः सुखावहः 024c एकान्ततो न विश्वासः कार्यो विश्वासघातकः 025a न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् 025c कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत् 026a माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः 026c भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य वेत्ता 027a अन्योन्यकृतवैराणां न सन्धिरुपपद्यते 027c स च हेतुरतिक्रान्तो यदर्थमहमावसम् 028a पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः 028c चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात् 029a पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना 029c जह्यात्तं सत्त्ववान्वासं सम्मानितविमानितः 030a उषितास्मि तवागारे दीर्घकालमहिंसिता 030c तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम् 031 ब्रह्मदत्त उवाच 031a यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् 031c अनृणस्तेन भवति वस पूजनि मा गमः 032 पूजन्युवाच 032a न कृतस्य न कर्तुश्च सख्यं सन्धीयते पुनः 032c हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च 033 ब्रह्मदत्त उवाच 033a कृतस्य चैव कर्तुश्च सख्यं सन्धीयते पुनः 033c वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः 034 पूजन्युवाच 034a नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् 034c विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम् 035a तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि 035c साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः 036 ब्रह्मदत्त उवाच 036a संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि 036c अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा 037a अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् 037c नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् 038 पूजन्युवाच 038a वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः 038c स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम् 039a तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः 039c प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम् 040a कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि 040c छन्नं सन्तिष्ठते वैरं गूढोऽग्निरिव दारुषु 041a न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः 041c वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे 042a न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम् 042c शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् 043a सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः 043c नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात् 044a नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् 044c विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम् 045 ब्रह्मदत्त उवाच 045a कालेन क्रियते कार्यं तथैव विविधाः क्रियाः 045c कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति 046a तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह 046c कार्यते चैव कालेन तन्निमित्तं हि जीवति 047a बध्यन्ते युगपत्केचिदेकैकस्य न चापरे 047c कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम् 048a नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे 048c कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम् 049a एवं वसेह सस्नेहा यथाकालमहिंसिता 049c यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि 050 पूजन्युवाच 050a यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् 050c कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते 051a कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे 051c यदि कालेन निर्याणं सुखदुःखे भवाभवौ 052a भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे 052c यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् 053a प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः 053c यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु 054a तव पुत्रो ममापत्यं हतवान्हिंसितो मया 054c अनन्तरं त्वया चाहं बन्धनीया महीपते 055a अहं हि पुत्रशोकेन कृतपापा तवात्मजे 055c तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु 056a भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः 056c तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः 057a वधबन्धभयादेके मोक्षतन्त्रमुपागताः 057c मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः 058a सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः 058c दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम् 059a दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः 059c दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम् 060a वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा 060c दुःखं सुखेन सततं जनाद्विपरिवर्तते 061a न दुःखं परदुःखे वै केचिदाहुरबुद्धयः 061c यो दुःखं नाभिजानाति स जल्पति महाजने 062a यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत् 062c रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे 063a यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् 063c न तद्वर्षशतैः शक्यं व्यपोहितुमरिन्दम 064a आवयोः कृतमन्योन्यं तत्र सन्धिर्न विद्यते 064c स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति 065a वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति 065c मृन्मयस्येव भग्नस्य तस्य सन्धिर्न विद्यते 066a निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः 066c उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा 067a ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा 067c ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा 068a न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात् 068c आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान् 069a उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः 069c अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि 070a सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् 070c अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते 071 ब्रह्मदत्त उवाच 071a नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किञ्चन 071c भयादेकतरान्नित्यं मृतकल्पा भवन्ति च 072 पूजन्युवाच 072a यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति 072c क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः 073a नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते 073c तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम् 074a दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते 074c आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् 075a यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः 075c हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः 076a यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम् 076c आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते 077a पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम् 077c परिणाममविज्ञाय तदन्तं तस्य जीवितम् 078a दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् 078c उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते 079a कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु 079c ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिञ्चनः 080a तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः 080c सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः 081a विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम् 081c मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः 082a निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः 082c एतान्युपचितान्याहुः सर्वत्र लभते पुमान् 083a सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते 083c न विभीषयते कञ्चिद्भीषितो न बिभेति च 084a नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते 084c दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति 085a गृहस्नेहावबद्धानां नराणामल्पमेधसाम् 085c कुस्त्री खादति मांसानि माघमा सेगवामिव 086a गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे 086c इत्येवमवसीदन्ति नरा बुद्धिविपर्यये 087a उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात् 087c अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः 088a तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे 088c कृतमेतदनाहार्यं तव पुत्रेण पार्थिव 089a कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् 089c कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् 090a कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः 090c कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते 091a कुमित्रे सङ्गतं नास्ति नित्यमस्थिरसौहृदे 091c अवमानः कुसम्बन्धे भवत्यर्थविपर्यये 092a सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः 092c तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते 093a यत्र नास्ति बलात्कारः स राजा तीव्रशासनः 093c न चैव ह्यभिसम्बन्धो दरिद्रं यो बुभूषति 094a भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः 094c एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ 095a अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात् 095c राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् 096a बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत् 096c न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः 097a दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुते यथावत् 097c स सर्वलोकादुपलभ्य पापमधर्मबुद्धिर्निरयं प्रयाति 098a दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा 098c स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् 099a पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः 099c सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः 100a पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः 100c तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः 101a सम्भावयति मातेव दीनमभ्यवपद्यते 101c दहत्यग्निरिवानिष्टान्यमयन्भवते यमः 102a इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः 102c गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात् 103a यस्तु रञ्जयते राजा पौरजानपदान्गुणैः 103c न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात् 104a स्वयं समुपजानन्हि पौरजानपदक्रियाः 104c स सुखं मोदते भूप इह लोके परत्र च 105a नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः 105c अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् 106a प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् 106c स सर्वयज्ञफलभाग्राजा लोके महीयते 107a बलिना विग्रहो राजन्न कथञ्चित्प्रशस्यते 107c बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम् 108 भीष्म उवाच 108a सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् 108c राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम् 109a एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् 109c मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि