001 युधिष्ठिर उवाच 001a सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ 001c अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी 002a तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम 002c यथा राजन्न मुह्येत शत्रुभिः परिवारितः 003a धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद 003c पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि 004a शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः 004c एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि 005a विषमस्थं हि राजानं शत्रवः परिपन्थिनः 005c बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः 006a सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः 006c एकेनैवासहायेन शक्यं स्थातुं कथं भवेत् 007a कथं मित्रमरिं चैव विन्देत भरतर्षभ 007c चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे 008a प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते 008c कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत् 009a विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत् 009c कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति 010a एतद्वै सर्वकृत्यानां परं कृत्यं परन्तप 010c नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः 011a ऋते शान्तनवाद्भीष्मात्सत्यसन्धाज्जितेन्द्रियात् 011c तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे 012 भीष्म उवाच 012a त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः 012c शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत 013a अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति 013c सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः 014a तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् 014c देशं कालं च विज्ञाय कार्याकार्यविनिश्चये 015a सन्धातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः 015c अमित्रैरपि सन्धेयं प्राणा रक्ष्याश्च भारत 016a यो ह्यमित्रैर्नरो नित्यं न सन्दध्यादपण्डितः 016c न सोऽर्थमाप्नुयात्किञ्चित्फलान्यपि च भारत 017a यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते 017c अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् 018a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 018c मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च 019a वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् 019c लताजालपरिच्छन्नो नानाद्विजगणायुतः 020a स्कन्धवान्मेघसङ्काशः शीतच्छायो मनोरमः 020c वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः 021a तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् 021c वसति स्म महाप्राज्ञः पलितो नाम मूषकः 022a शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः 022c लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः 023a तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः 023c अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ 024a तत्र स्नायुमयान्पाशान्यथावत्सन्निधाय सः 024c गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् 025a तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः 025c कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत 026a तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि 026c तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः 027a तेनानुचरता तस्मिन्वने विश्वस्तचारिणा 027c भक्षं विचरमाणेन नचिराद्दृष्टमामिषम् 028a स तमुन्माथमारुह्य तदामिषमभक्षयत् 028c तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् 029a आमिषे तु प्रसक्तः स कदाचिदवलोकयन् 029c अपश्यदपरं घोरमात्मनः शत्रुमागतम् 030a शरप्रसूनसङ्काशं महीविवरशायिनम् 030c नकुलं हरिकं नाम चपलं ताम्रलोचनम् 031a तेन मूषकगन्धेन त्वरमाणमुपागतम् 031c भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम् 032a शाखागतमरिं चान्यदपश्यत्कोटरालयम् 032c उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम् 033a गतस्य विषयं तस्य नकुलोलूकयोस्तदा 033c अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् 034a आपद्यस्यां सुकष्टायां मरणे समुपस्थिते 034c समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा 035a स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः 035c अभवद्भयसन्तप्तश्चक्रे चेमां परां गतिम् 036a आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम् 036c समन्तसंशया चेयमस्मानापदुपस्थिता 037a गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् 037c उलूकश्चेह तिष्ठन्तं मार्जारः पाशसङ्क्षयात् 038a न त्वेवास्मद्विधः प्राज्ञः सम्मोहं गन्तुमर्हति 038c करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् 039a न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः 039c सम्भ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च 040a न त्वन्यामिह मार्जाराद्गतिं पश्यामि साम्प्रतम् 040c विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया 041a जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः 041c तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै 042a क्षत्रविद्यां समाश्रित्य हितमस्योपधारये 042c येनेमं शत्रुसङ्घातं मतिपूर्वेण वञ्चये 043a अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः 043c मूढो ग्राहयितुं स्वार्थं सङ्गत्या यदि शक्यते 044a कदाचिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह 044c बलिना सन्निविष्टस्य शत्रोरपि परिग्रहः 044e कार्य इत्याहुराचार्या विषमे जीवितार्थिना 045a श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम् 045c मम ह्यमित्रे मार्जारे जीवितं सम्प्रतिष्ठितम् 046a हन्तैनं सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे 046c अपीदानीमयं शत्रुः सङ्गत्या पण्डितो भवेत् 047a ततोऽर्थगतितत्त्वज्ञः सन्धिविग्रहकालवित् 047c सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् 048a सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि 048c जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ 049a न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा 049c अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते 050a अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम् 050c येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया 051a मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः 051c आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ 052a इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम् 052c न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम् 053a कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते 053c नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे 054a सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः 054c सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम् 055a न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया 055c अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि 056a त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः 056c चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते 057a यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित् 057c न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ 058a तस्माद्विवर्धतां प्रीतिः सत्या सङ्गतिरस्तु नौ 058c कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः 059a अर्थयुक्तिमिमां तावद्यथाभूतां निशामय 059c तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् 060a कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् 060c स तारयति तत्काष्ठं स च काष्ठेन तार्यते 061a ईदृशो नौ समायोगो भविष्यति सुनिस्तरः 061c अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि 062a एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम् 062c हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत 063a अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः 063c हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् 064a बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्णयन् 064c तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत् 065a ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः 065c मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत् 066a नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि 066c श्रेयश्च यदि जानीषे क्रियतां मा विचारय 067a अहं हि दृढमापन्नस्त्वमापन्नतरो मया 067c द्वयोरापन्नयोः सन्धिः क्रियतां मा विचारय 068a विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः 068c मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् 069a न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा 069c निदेशवशवर्ती च भवन्तं शरणं गतः 070a इत्येवमुक्तः पलितो मार्जारं वशमागतम् 070c वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत् 071a उदारं यद्भवानाह नैतच्चित्रं भवद्विधे 071c विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम 072a अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम् 072c त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे 073a उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् 073c अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे 074a तद्वचः सङ्गतं श्रुत्वा लोमशो युक्तमर्थवत् 074c हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् 075a स तं सम्पूज्य पलितं मार्जारः सौहृदे स्थितः 075c सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि 076a क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा 076c तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम् 077a यद्यदेवङ्गतेनाद्य शक्यं कर्तुं मया तव 077c तदाज्ञापय कर्ताहं सन्धिरेवास्तु नौ सखे 078a अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः 078c सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च 079a मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते 079c प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम् 080a ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा 080c प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह 081a एवमाश्वासितो विद्वान्मार्जारेण स मूषकः 081c मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् 082a लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम् 082c तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान् 083a लीनस्तु तस्य गात्रेषु पलितो देशकालवित् 083c चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः 084a अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम् 084c छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः 085a तमत्वरन्तं पलितं पाशानां छेदने तदा 085c सञ्चोदयितुमारेभे मार्जारो मूषकं तदा 086a किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे 086c छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः 087a इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत् 087c मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः 088a तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः 088c वयमेवात्र कालज्ञा न कालः परिहास्यते 089a अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते 089c तदेव काल आरब्धं महतेऽर्थाय कल्पते 090a अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत् 090c तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे 091a यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् 091c ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये 092a तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि 092c न हि ते जीवितादन्यत्किञ्चित्कृत्यं भविष्यति 093a ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश 093c अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति 094a एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम् 094c वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः 095a अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन् 095c उवाच लोमशो वाक्यं मूषकं चिरकारिणम् 096a न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः 096c यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया 097a तथैव त्वरमाणेन त्वया कार्यं हितं मम 097c यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् 098a अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि 098c पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम 099a यच्च किञ्चिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम् 099c न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे 100a तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसम्मतः 100c उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा 101a श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः 101c ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः 102a यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम् 102c सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव 103a कृत्वा बलवता सन्धिमात्मानं यो न रक्षति 103c अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते 104a न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत् 104c अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव 105a न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते 105c तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् 106a तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः 106c मम न ग्रहणे शक्तः पलायनपरायणः 107a छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः 107c छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश 108a तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः 108c क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम् 109a ततः प्रभातसमये विकृतः कृष्णपिङ्गलः 109c स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः 110a शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः 110c परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत 111a तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः 111c उवाच पलितं भीतः किमिदानीं करिष्यसि 112a अथ चापि सुसन्त्रस्तौ तं दृष्ट्वा घोरदर्शनम् 112c क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा 113a बलिनौ मतिमन्तौ च सङ्घातं चाप्युपागतौ 113c अशक्यौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात् 114a कार्यार्थं कृतसन्धी तौ दृष्ट्वा मार्जारमूषकौ 114c उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम् 115a ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः 115c विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम् 116a स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा 116c बिलं विवेश पलितः शाखां भेजे च लोमशः 117a उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः 117c विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत् 117e जगाम च स्वभवनं चण्डालो भरतर्षभ 118a ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम् 118c बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् 119a अकृत्वा संविदं काञ्चित्सहसाहमुपप्लुतः 119c कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे 120a गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् 120c मित्रोपभोगसमये किं त्वं नैवोपसर्पसि 121a कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति 121c न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः 122a तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे 122c स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि 123a यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः 123c सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् 124a अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् 124c जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् 125a ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च 125c अर्थानां चैव सर्वेषामनुशास्ता च मे भव 126a अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम् 126c न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे 127a बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम् 127c त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह 128a एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः 128c उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः 129a यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् 129c ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम् 130a वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः 130c एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसम्मतम् 131a शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः 131c सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः 132a नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते 132c सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा 133a यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति 133c स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः 134a नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् 134c अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा 135a मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये 135c शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः 136a यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु 136c अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् 137a अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् 137c मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः 138a न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् 138c विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति 139a अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा 139c मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः 140a पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् 140c लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् 141a तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम् 141c कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम् 142a अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः 142c पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान् 143a आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति 143c तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् 144a ब्रवीति मधुरं कञ्चित्प्रियो मे ह भवानिति 144c तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु 145a कारणात्प्रियतामेति द्वेष्यो भवति कारणात् 145c अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः 146a सख्यं सोदरयोर्भ्रात्रोर्दम्पत्योर्वा परस्परम् 146c कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह 147a यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे 147c स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः 148a प्रियो भवति दानेन प्रियवादेन चापरः 148c मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः 149a उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे 149c प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते 150a किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः 150c अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् 151a कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते 151c स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते 152a न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते 152c अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव 153a तस्मान्नाहं चले स्वार्थात्सुस्थितः सन्धिविग्रहे 153c अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे 154a अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम् 154c पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् 155a आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा 155c सा गता सह तेनैव कालयुक्तेन हेतुना 156a त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः 156c तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता 157a सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः 157c प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे 158a त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् 158c अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः 159a त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम् 159c न तेऽस्त्यन्यन्मया कृत्यं किञ्चिदन्यत्र भक्षणात् 160a अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली 160c नावयोर्विद्यते सन्धिर्नियुक्ते विषमे बले 161a सम्मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् 161c भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम् 162a भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा 162c शास्त्रज्ञमभिसन्धाय नूनं भक्षयिताद्य माम् 163a जानामि क्षुधितं हि त्वामाहारसमयश्च ते 163c स त्वं मामभिसन्धाय भक्ष्यं मृगयसे पुनः 164a यच्चापि पुत्रदारं स्वं तत्सन्निसृजसे मयि 164c शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम् 165a त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये 165c कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि 166a नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे 166c शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि 167a शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च 167c भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् 168a स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे 168c नाहं त्वया समेष्यामि निर्वृतो भव लोमश 169a बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते 169c प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा 170a यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते 170c कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन 171a आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनं तथा 171c अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना 172a ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम् 172c दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् 173a न त्वात्मनः सम्प्रदानं धनरत्नवदिष्यते 173c आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि 174a आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् 174c आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः 175a शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः 175c तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया 176a इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः 176c मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत् 177a सम्मन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः 177c उक्तवानर्थतत्त्वेन मया सम्भिन्नदर्शनः 178a न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि 178c प्राणप्रदानजं त्वत्तो मम सौहृदमागतम् 179a धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः 179c मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः 180a तन्मामेवङ्गते साधो न यावयितुमर्हसि 180c त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः 181a धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु 181c मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि 182a इति संस्तूयमानो हि मार्जारेण स मूषकः 182c मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत् 183a साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे 183c संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया 184a न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे 184c अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते 185a शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा 185c समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् 186a तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः 186c द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवतः 187a सङ्क्षेपो नीतिशास्त्राणामविश्वासः परो मतः 187c नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः 188a वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि 188c विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः 189a त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा 189c रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् 190a स तस्य ब्रुवतस्त्वेवं सन्त्रासाज्जातसाध्वसः 190c स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः 191a ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः 191c विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह 192a एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः 192c एकेन बहवोऽमित्राः पलितेनाभिसन्धिताः 193a अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः 193c मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् 194a इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः 194c विस्तरेण महीपाल सङ्क्षेपेण पुनः शृणु 195a अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् 195c अन्योन्यमभिसन्धातुमभूच्चैव तयोर्मतिः 196a तत्र प्राज्ञोऽभिसन्धत्ते सम्यग्बुद्धिबलाश्रयात् 196c अभिसन्धीयते प्राज्ञः प्रमादादपि चाबुधैः 197a तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् 197c न ह्यप्रमत्तश्चलति चलितो वा विनश्यति 198a कालेन रिपुणा सन्धिः काले मित्रेण विग्रहः 198c कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर 199a एवं मत्वा महाराज शास्त्रार्थमभिगम्य च 199c अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् 200a भीतवत्संविधिः कार्यः प्रतिसन्धिस्तथैव च 200c भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा 201a न भयं विद्यते राजन्भीतस्यानागते भये 201c अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् 202a न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथञ्चन 202c अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु 203a तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् 203c कार्याणां गुरुतां बुद्ध्वा नानृतं किञ्चिदाचरेत् 204a एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर 204c श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर 205a उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा 205c सन्धिविग्रहकालं च मोक्षोपायं तथापदि 206a शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा 206c समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् 207a अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर 207c अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः 208a ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव 208c ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत 209a एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो 209c पूजिताः शुभकर्माणः पूर्वजित्या नराधिप 210a राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे 210c कुलस्य सन्ततिं चैव यथान्यायं यथाक्रमम् 211a द्वयोरिमं भारत सन्धिविग्रहं सुभाषितं बुद्धिविशेषकारितम् 211c तथान्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डले