001 भीष्म उवाच 001a अत्रैव चेदमव्यग्रः शृण्वाख्यानमनुत्तमम् 001c दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये 002a नातिगाधे जलस्थाये सुहृदः शकुलास्त्रयः 002c प्रभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः 003a अत्रैकः प्राप्तकालज्ञो दीर्घदर्शी तथापरः 003c दीर्घसूत्रश्च तत्रैकस्त्रयाणां जलचारिणाम् 004a कदाचित्तज्जलस्थायं मत्स्यबन्धाः समन्ततः 004c निःस्रावयामासुरथो निम्नेषु विविधैर्मुखैः 005a प्रक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे 005c अब्रवीद्दीर्घदर्शी तु तावुभौ सुहृदौ तदा 006a इयमापत्समुत्पन्ना सर्वेषां सलिलौकसाम् 006c शीघ्रमन्यत्र गच्छामः पन्था यावन्न दुष्यति 007a अनागतमनर्थं हि सुनयैर्यः प्रबाधते 007c न स संशयमाप्नोति रोचतां वां व्रजामहे 008a दीर्घसूत्रस्तु यस्तत्र सोऽब्रवीत्सम्यगुच्यते 008c न तु कार्या त्वरा यावदिति मे निश्चिता मतिः 009a अथ सम्प्रतिपत्तिज्ञः प्राब्रवीद्दीर्घदर्शिनम् 009c प्राप्ते काले न मे किञ्चिन्न्यायतः परिहास्यते 010a एवमुक्तो निराक्रामद्दीर्घदर्शी महामतिः 010c जगाम स्रोतसैकेन गम्भीरसलिलाशयम् 011a ततः प्रस्रुततोयं तं समीक्ष्य सलिलाशयम् 011c बबन्धुर्विविधैर्योगैर्मत्स्यान्मत्स्योपजीविनः 012a विलोड्यमाने तस्मिंस्तु स्रुततोये जलाशये 012c अगच्छद्ग्रहणं तत्र दीर्घसूत्रः सहापरैः 013a उद्दानं क्रियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः 013c प्रविश्यान्तरमन्येषामग्रसत्प्रतिपत्तिमान् 014a ग्रस्तमेव तदुद्दानं गृहीत्वास्त तथैव सः 014c सर्वानेव तु तांस्तत्र ते विदुर्ग्रथिता इति 015a ततः प्रक्षाल्यमानेषु मत्स्येषु विमले जले 015c त्यक्त्वा रज्जुं विमुक्तोऽभूच्छीघ्रं सम्प्रतिपत्तिमान् 016a दीर्घसूत्रस्तु मन्दात्मा हीनबुद्धिरचेतनः 016c मरणं प्राप्तवान्मूढो यथैवोपहतेन्द्रियः 017a एवं प्राप्ततमं कालं यो मोहान्नावबुध्यते 017c स विनश्यति वै क्षिप्रं दीर्घसूत्रो यथा झषः 018a आदौ न कुरुते श्रेयः कुशलोऽस्मीति यः पुमान् 018c स संशयमवाप्नोति यथा सम्प्रतिपत्तिमान् 019a अनागतविधानं तु यो नरः कुरुते क्षमम् 019c श्रेयः प्राप्नोति सोऽत्यर्थं दीर्घदर्शी यथा ह्यसौ 020a कलाः काष्ठा मुहूर्ताश्च दिना नाड्यः क्षणा लवाः 020c पक्षा मासाश्च ऋतवस्तुल्याः संवत्सराणि च 021a पृथिवी देश इत्युक्तः कालः स च न दृश्यते 021c अभिप्रेतार्थसिद्ध्यर्थं न्यायतो यच्च तत्तथा 022a एतौ धर्मार्थशास्त्रेषु मोक्षशास्त्रेषु चर्षिभिः 022c प्रधानाविति निर्दिष्टौ कामेशाभिमतौ नृणाम् 023a परीक्ष्यकारी युक्तस्तु सम्यक्समुपपादयेत् 023c देशकालावभिप्रेतौ ताभ्यां फलमवाप्नुयात्