001 भीष्म उवाच 001a अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः 001c येन मार्गेण राजानः कोशं सञ्जनयन्ति च 002a न धनं यज्ञशीलानां हार्यं देवस्वमेव तत् 002c दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति 003a इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत 003c धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते 004a तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा 004c अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत 005a यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति 005c आनन्तिकां तां धनितामाहुर्वेदविदो जनाः 006a हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः 006c न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः 007a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 007c आत्मानं सङ्क्रमं कृत्वा मन्ये धर्मविदेव सः 008a औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा 008c अनिष्टतः सम्भवन्ति तथायज्ञः प्रतायते 009a यथैव दंशमशकं यथा चाण्डपिपीलिकम् 009c सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते 010a यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम् 010c तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च