001 भीष्म उवाच 001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001c यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति 002a प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् 002c रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः 003a निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः 003c कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् 004a अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता 004c विधिज्ञो मृगजातीनां निपानानां च कोविदः 005a सर्वकाननदेशज्ञः पारियात्रचरः सदा 005c धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः 006a अप्यनेकशताः सेना एक एव जिगाय सः 006c स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत् 007a मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि 007c सत्कृत्य भोजयामास सम्यक्परिचचार च 008a आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् 008c अपि तेभ्यो मृगान्हत्वा निनाय च महावने 009a ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया 009c तेषामासज्य गेहेषु काल्य एव स गच्छति 010a तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे 010c निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम् 011 दस्यव ऊचुः 011a मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध 011c ग्रामणीर्भव नो मुख्यः सर्वेषामेव सम्मतः 012a यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा 012c पालयास्मान्यथान्यायं यथा माता यथा पिता 013 कापव्य उवाच 013a मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् 013c नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः 014a सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता 014c नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः 015a सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः 015c पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा 016a सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति 016c कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत् 017a यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम् 017c न तस्य त्रिषु लोकेषु त्राता भवति कश्चन 018a यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् 018c सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः 019a इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः 019c ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति 020a शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः 020c ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः 021a ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन 021c तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा 022a ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः 022c अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः 023 भीष्म उवाच 023a तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् 023c वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् 024a कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् 024c साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् 025a इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् 025c नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन 026a भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन 026c न सतो नासतो राजन्स ह्यरण्येषु गोपतिः