001 भीष्म उवाच 001a अत्र कर्मान्तवचनं कीर्तयन्ति पुराविदः 001c प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः 001e तत्र न व्यवधातव्यं परोक्षा धर्मयापना 002a अधर्मो धर्म इत्येतद्यथा वृकपदं तथा 002c धर्माधर्मफले जातु न ददर्शेह कश्चन 003a बुभूषेद्बलवानेव सर्वं बलवतो वशे 003c श्रियं बलममात्यांश्च बलवानिह विन्दति 004a यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् 004c बह्वपथ्यं बलवति न किञ्चित्त्रायते भयात् 005a उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् 005c अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते 006a बले प्रतिष्ठितो धर्मो धरण्यामिव जङ्गमः 006c धूमो वायोरिव वशं बलं धर्मोऽनुवर्तते 007a अनीश्वरे बलं धर्मो द्रुमं वल्लीव संश्रिता 007c वश्यो बलवतां धर्मः सुखं भोगवतामिव 007e नास्त्यसाध्यं बलवतां सर्वं बलवतां शुचि 008a दुराचारः क्षीणबलः परिमाणं नियच्छति 008c अथ तस्मादुद्विजते सर्वो लोको वृकादिव 009a अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् 009c जीवितं यदवक्षिप्तं यथैव मरणं तथा 010a यदेनमाहुः पापेन चारित्रेण विनिक्षतम् 010c स भृशं तप्यतेऽनेन वाक्शल्येन परिक्षतः 011a अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे 011c त्रयीं विद्यां निषेवेत तथोपासीत स द्विजान् 012a प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा 012c महामनाश्चैव भवेद्विवहेच्च महाकुले 013a इत्यस्मीति वदेदेवं परेषां कीर्तयन्गुणान् 013c जपेदुदकशीलः स्यात्पेशलो नातिजल्पनः 014a ब्रह्मक्षत्रं सम्प्रविशेद्बहु कृत्वा सुदुष्करम् 014c उच्यमानोऽपि लोकेन बहु तत्तदचिन्तयन् 015a अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् 015c सुखं वित्तं च भुञ्जीत वृत्तेनैतेन गोपयेत् 015e लोके च लभते पूजां परत्र च महत्फलम्