001 भीष्म उवाच 001a स्वराष्ट्रात्परराष्ट्राच्च कोशं सञ्जनयेन्नृपः 001c कोशाद्धि धर्मः कौन्तेय राज्यमूलः प्रवर्तते 002a तस्मात्सञ्जनयेत्कोशं संहृत्य परिपालयेत् 002c परिपाल्यानुगृह्णीयादेष धर्मः सनातनः 003a न कोशः शुद्धशौचेन न नृशंसेन जायते 003c पदं मध्यममास्थाय कोशसङ्ग्रहणं चरेत् 004a अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् 004c अबलस्य कुतो राज्यमराज्ञः श्रीः कुतो भवेत् 005a उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा 005c तस्मात्कोशं बलं मित्राण्यथ राजा विवर्धयेत् 006a हीनकोशं हि राजानमवजानन्ति मानवाः 006c न चास्याल्पेन तुष्यन्ति कार्यमभ्युत्सहन्ति च 007a श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् 007c सास्य गूहति पापानि वासो गुह्यमिव स्त्रियाः 008a ऋद्धिमस्यानुवर्तन्ते पुरा विप्रकृता जनाः 008c शालावृका इवाजस्रं जिघांसूनिव विन्दति 008e ईदृशस्य कुतो राज्ञः सुखं भरतसत्तम 009a उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् 009c अप्यपर्वणि भज्येत न नमेतेह कस्यचित् 010a अप्यरण्यं समाश्रित्य चरेद्दस्युगणैः सह 010c न त्वेवोद्धृतमर्यादैर्दस्युभिः सहितश्चरेत् 010e दस्यूनां सुलभा सेना रौद्रकर्मसु भारत 011a एकान्तेन ह्यमर्यादात्सर्वोऽप्युद्विजते जनः 011c दस्यवोऽप्युपशङ्कन्ते निरनुक्रोशकारिणः 012a स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् 012c अल्पाप्यथेह मर्यादा लोके भवति पूजिता 013a नायं लोकोऽस्ति न पर इति व्यवसितो जनः 013c नालं गन्तुं च विश्वासं नास्तिके भयशङ्किनि 014a यथा सद्भिः परादानमहिंसा दस्युभिस्तथा 014c अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु 015a अयुध्यमानस्य वधो दारामर्शः कृतघ्नता 015c ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा 015e स्त्रिया मोषः परिस्थानं दस्युष्वेतद्विगर्हितम् 016a स एष एव भवति दस्युरेतानि वर्जयन् 016c अभिसन्दधते ये न विनाशायास्य भारत 016e न शेषमेवोपालभ्य न कुर्वन्तीति निश्चयः 017a तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः 017c न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् 018a सशेषकारिणस्तात शेषं पश्यन्ति सर्वतः 018c निःशेषकारिणो नित्यमशेषकरणाद्भयम्