001 युधिष्ठिर उवाच 001a हीने परमके धर्मे सर्वलोकातिलङ्घिनि 001c सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने 002a केनास्मिन्ब्राह्मणो जीवेज्जघन्ये काल आगते 002c असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह 003 भीष्म उवाच 003a विज्ञानबलमास्थाय जीवितव्यं तथागते 003c सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन 004a असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति 004c आत्मानं सङ्क्रमं कृत्वा कृत्स्नधर्मविदेव सः 005a सुरोषेणात्मनो राजन्राज्ये स्थितिमकोपयन् 005c अदत्तमप्याददीत दातुर्वित्तं ममेति वा 006a विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि 006c वृत्तविज्ञानवान्धीरः कस्तं किं वक्तुमर्हति 007a येषां बलकृता वृत्तिर्नैषामन्याभिरोचते 007c तेजसाभिप्रवर्धन्ते बलवन्तो युधिष्ठिर 008a यदेव प्रकृतं शास्त्रमविशेषेण विन्दति 008c तदेव मध्याः सेवन्ते मेधावी चाप्यथोत्तरम् 009a ऋत्विक्पुरोहिताचार्यान्सत्कृतैरभिपूजितान् 009c न ब्राह्मणान्यातयेत दोषान्प्राप्नोति यातयन् 010a एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् 010c तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा 011a बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् 011c न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा 012a न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन 012c कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः 013a न वै सतां वृत्तमेतत्परिवादो न पैशुनम् 013c गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर 014a यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ 014c धुरमुद्यम्य वहतस्तथा वर्तेत वै नृपः 014e यथा यथास्य वहतः सहायाः स्युस्तथापरे 015a आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् 015c अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः 015e मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् 016a आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् 016c न चार्षात्सदृशं किञ्चित्प्रमाणं विद्यते क्वचित् 017a देवा अपि विकर्मस्थं यातयन्ति नराधमम् 017c व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते 018a सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः 018c हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति 019a यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित् 019c अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् 020a यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत् 020c कक्षे रुधिरपातेन तथा धर्मपदं नयेत् 021a एवं सद्भिर्विनीतेन पथा गन्तव्यमच्युत 021c राजर्षीणां वृत्तमेतदवगच्छ युधिष्ठिर