001 युधिष्ठिर उवाच 001a क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु 001c विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च 002a परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत 002c असम्भावितमित्रस्य भिन्नामात्यस्य सर्वशः 003a परचक्राभियातस्य दुर्बलस्य बलीयसा 003c आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते 004 भीष्म उवाच 004a बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः 004c जवेन सन्धिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् 005a अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः 005c आत्मनः सन्निरोधेन सन्धिं तेनाभियोजयेत् 006a अपास्य राजधानीं वा तरेदन्येन वापदम् 006c तद्भावभावे द्रव्याणि जीवन्पुनरुपार्जयेत् 007a यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः 007c कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् 008a अवरोधाज्जुगुप्सेत का सपत्नधने दया 008c न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन 009 युधिष्ठिर उवाच 009a आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते 009c क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते 010 भीष्म उवाच 010a क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः 010c पदापनयनं क्षिप्रमेतावत्साम्परायिकम् 011a अनुरक्तेन पुष्टेन हृष्टेन जगतीपते 011c अल्पेनापि हि सैन्येन महीं जयति पार्थिवः 012a हतो वा दिवमारोहेद्विजयी क्षितिमावसेत् 012c युद्धे तु सन्त्यजन्प्राणाञ्शक्रस्यैति सलोकताम् 013a सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च 013c विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ 014a अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत् 014c विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत्