001 युधिष्ठिर उवाच 001a मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः 001c राज्ञः सङ्क्षीणकोशस्य बलहीनस्य भारत 002a दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः 002c राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः 003a परचक्राभियातस्य दुर्बलस्य बलीयसा 003c असंविहितराष्ट्रस्य देशकालावजानतः 004a अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात् 004c जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् 005 भीष्म उवाच 005a गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ 005c अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर 006a धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ 006c श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् 007a कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः 007c तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया 008a उपायं धर्मबहुलं यात्रार्थं शृणु भारत 008c नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् 008e दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः 009a अनुगम्य गतीनां च सर्वासामेव निश्चयम् 009c यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते 009e तथा तथा विजानाति विज्ञानं चास्य रोचते 010a अविज्ञानादयोगश्च पुरुषस्योपजायते 010c अविज्ञानादयोगो हि योगो भूतिकरः पुनः 011a अशङ्कमानो वचनमनसूयुरिदं शृणु 011c राज्ञः कोशक्षयादेव जायते बलसङ्क्षयः 012a कोशं सञ्जनयेद्राजा निर्जलेभ्यो यथा जलम् 012c कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र साम्प्रतम् 013a उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः 013c अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत 014a प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी 014c धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति 015a यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते 015c तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः 016a अधर्मो जायते यस्मिन्निति वै कवयो विदुः 016c अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे 017a यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा 017c तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत् 018a सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः 018c सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः 019a तत्र धर्मविदां तात निश्चयो धर्मनैपुणे 019c उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः 020a क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति 020c अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत 021a यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत् 021c अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः 022a पीडितस्य किमद्वारमुत्पथो निधृतस्य वा 022c अद्वारतः प्रद्रवति यदा भवति पीडितः 023a तस्य कोशबलज्यान्या सर्वलोकपराभवः 023c भैक्षचर्या न विहिता न च विट्शूद्रजीविका 024a स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः 024c वहतः प्रथमं कल्पमनुकल्पेन जीवनम् 025a आपद्गतेन धर्माणामन्यायेनोपजीवनम् 025c अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये 026a क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा 026c आददीत विशिष्टेभ्यो नावसीदेत्कथञ्चन 027a हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः 027c तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना 028a अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित् 028c अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः 029a न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम् 029c विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता 030a परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि 030c नित्यमेवेह कर्तव्या एष धर्मः सनातनः 031a राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति 031c राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत् 032a कोशं दण्डं बलं मित्रं यदन्यदपि सञ्चितम् 032c न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा 033a बीजं भक्तेन सम्पाद्यमिति धर्मविदो विदुः 033c अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम् 034a धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति 034c अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः 035a राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम् 035c तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः 036a नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् 036c तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति 037a अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु 037c एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति 038a अर्थार्थमन्यद्भवति विपरीतमथापरम् 038c अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् 038e एवं बुद्ध्या सम्प्रपश्येन्मेधावी कार्यनिश्चयम् 039a यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः 039c यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम् 040a उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम् 040c यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः 041a द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि 041c ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् 042a एवं कोशस्य महतो ये नराः परिपन्थिनः 042c तानहत्वा न पश्यामि सिद्धिमत्र परन्तप 043a धनेन जयते लोकावुभौ परमिमं तथा 043c सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा 044a सर्वोपायैराददीत धनं यज्ञप्रयोजनम् 044c न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत 045a नैतौ सम्भवतो राजन्कथञ्चिदपि भारत 045c न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् 046a यदिदं दृश्यते वित्तं पृथिव्यामिह किञ्चन 046c ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः 047a न च राज्यसमो धर्मः कश्चिदस्ति परन्तप 047c धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा 048a दानेन कर्मणा चान्ये तपसान्ये तपस्विनः 048c बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसञ्चयान् 049a अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् 049c सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् 049e कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम्