001 युधिष्ठिर उवाच 001a नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि 001c तस्मात्कथय भूयस्त्वं धर्ममेव पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c गौतमस्य च संवादं यमस्य च महात्मनः 003a पारियात्रगिरिं प्राप्य गौतमस्याश्रमो महान् 003c उवास गौतमो यत्र कालं तदपि मे शृणु 004a षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः 004c तमुग्रतपसं युक्तं तपसा भावितं मुनिम् 005a उपयातो नरव्याघ्र लोकपालो यमस्तदा 005c तमपश्यत्सुतपसमृषिं वै गौतमं मुनिम् 006a स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा 006c प्राञ्जलिः प्रयतो भूत्वा उपसृप्तस्तपोधनः 007a तं धर्मराजो दृष्ट्वैव नमस्कृत्य नरर्षभम् 007c न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् 008 गौतम उवाच 008a मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् 008c कथं च लोकानश्नाति पुरुषो दुर्लभाञ्शुभान् 009 यम उवाच 009a तपःशौचवता नित्यं सत्यधर्मरतेन च 009c मातापित्रोरहरहः पूजनं कार्यमञ्जसा 010a अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः 010c तेन लोकानुपाश्नाति पुरुषोऽद्भुतदर्शनान्