001 भीष्म उवाच 001a ततस्तेषां समस्तानामृषीणामृषिसत्तमः 001c ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् 002a पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो 002c समासादितवान्दिव्यं नरनारायणाश्रमम् 003a यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा 003c यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् 004a तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा 004c पितॄणां देवतानां च ततोऽऽश्रममियां तदा 005a रेमाते यत्र तौ नित्यं नरनारायणावृषी 005c अदूरादाश्रमं कञ्चिद्वासार्थमगमं ततः 006a ततश्चीराजिनधरं कृशमुच्चमतीव च 006c अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् 007a अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम् 007c कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् 008a शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् 008c ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः 009a शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च 009c तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम 010a दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः 010c पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः 011a निवेद्य नाम गोत्रं च पितरं च नरर्षभ 011c प्रदिष्टे चासने तेन शनैरहमुपाविशम् 012a ततः स कथयामास कथा धर्मार्थसंहिताः 012c ऋषिमध्ये महाराज तत्र धर्मभृतां वरः 013a तस्मिंस्तु कथयत्येव राजा राजीवलोचनः 013c उपायाज्जवनैरश्वैः सबलः सावरोधनः 014a स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः 014c भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः 015a इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः 015c एवमाशाकृतो राजंश्चरन्वनमिदं पुरा 016a दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः 016c एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा 017a दुर्लभः स मया द्रष्टुमाशा च महती मम 017c तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः 018a एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः 018c अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् 019a तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः 019c उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् 020a दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् 020c ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि 021a महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः 021c बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः 022a अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च 022c निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत 023a एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् 023c श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम 024a अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः 024c आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् 025a ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् 025c उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् 026a अपृच्छंश्चैव ते तत्र राजानमपराजितम् 026c प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् 027 राजोवाच 027a वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः 027c भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः 028a एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ 028c न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् 029 ऋषभ उवाच 029a एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः 029c तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् 030a स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः 030c आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः 031a प्रतिग्रहमहं राज्ञां न करिष्ये कथञ्चन 031c अन्येषां चैव वर्णानामिति कृत्वा धियं तदा 032a आशा हि पुरुषं बालं लालापयति तस्थुषी 032c तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः 033 राजोवाच 033a आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् 033c ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् 034 ऋषभ उवाच 034a ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् 034c राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः 035a कृशत्वे न समं राजन्नाशाया विद्यते नृप 035c तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया 036 राजोवाच 036a कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव 036c दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज 037a संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम 037c तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः 038a त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् 038c यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् 039 कृशतनुरुवाच 039a दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् 039c सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते 040a संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः 040c सक्ता या सर्वभूतेषु साशा कृशतरी मया 041a एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा 041c प्रवृत्तिं यो न जानाति साशा कृशतरी मया 042a प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता 042c तथा नरेन्द्र धनिनामाशा कृशतरी मया 043 ऋषभ उवाच 043a एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः 043c संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे 044 राजोवाच 044a प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् 044c वृणीष्व च वरं विप्र यमिच्छसि यथाविधि 045 ऋषभ उवाच 045a अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः 045c सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा 046a ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः 046c पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च 047a तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् 047c आत्मानं दर्शयामास धर्मं धर्मभृतां वरः 048a सन्दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् 048c विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् 049a एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् 049c आशामपनयस्वाशु ततः कृशतरीमिमाम् 050 भीष्म उवाच 050a स तत्रोक्तो महाराज ऋषभेण महात्मना 050c सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा 051a एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम 051c स्थिरो भव यथा राजन्हिमवानचलोत्तमः 052a त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह 052c श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि