001 युधिष्ठिर उवाच 001a शीलं प्रधानं पुरुषे कथितं ते पितामह 001c कथमाशा समुत्पन्ना या च सा तद्वदस्व मे 002a संशयो मे महानेष समुत्पन्नः पितामह 002c छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय 003a पितामहाशा महती ममासीद्धि सुयोधने 003c प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो 004a सर्वस्याशा सुमहती पुरुषस्योपजायते 004c तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् 005a सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना 005c धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम 006a आशां महत्तरां मन्ये पर्वतादपि सद्रुमात् 006c आकाशादपि वा राजन्नप्रमेयैव वा पुनः 007a एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा 007c दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः 008 भीष्म उवाच 008a अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् 008c इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च 009a सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः 009c ससार स मृगं विद्ध्वा बाणेन नतपर्वणा 010a स मृगो बाणमादाय ययावमितविक्रमः 010c स च राजा बली तूर्णं ससार मृगमन्तिकात् 011a ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः 011c मुहूर्तमेव राजेन्द्र समेन स पथागमत् 012a ततः स राजा तारुण्यादौरसेन बलेन च 012c ससार बाणासनभृत्सखड्गो हंसवत्तदा 013a तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च 013c अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् 014a स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् 014c पुनरभ्येति जवनो जवेन महता ततः 015a स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः 015c प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् 016a पुनश्च जवमास्थाय जवनो मृगयूथपः 016c अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् 017a तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः 017c समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् 018a ततो गव्यूतिमात्रेण मृगयूथपयूथपः 018c तस्य बाणपथं त्यक्त्वा तस्थिवान्प्रहसन्निव 019a तस्मिन्निपतिते बाणे भूमौ प्रज्वलिते ततः 019c प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् 020a प्रविश्य तु महारण्यं तापसानामथाश्रमम् 020c आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः 021a तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा 021c समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि 022a ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् 022c केन भद्रमुखार्थेन सम्प्राप्तोऽसि तपोवनम् 023a पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर 023c एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद 023e कस्मिन्कुले हि जातस्त्वं किन्नामासि ब्रवीहि नः 024a ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ 024c आचख्यौ तद्यथान्यायं परिचर्यां च भारत 025a हैहयानां कुले जातः सुमित्रो मित्रनन्दनः 025c चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः 025e बलेन महता गुप्तः सामात्यः सावरोधनः 026a मृगस्तु विद्धो बाणेन मया सरति शल्यवान् 026c तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया 026e भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः 027a किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः 027c भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः 028a न राजलक्षणत्यागो न पुरस्य तपोधनाः 028c दुःखं करोति तत्तीव्रं यथाशा विहता मम 029a हिमवान्वा महाशैलः समुद्रो वा महोदधिः 029c महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा 029e आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः 030a भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः 030c भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् 031a आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा 031c किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः 031e एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् 032a यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् 032c न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः 033a भवत्तपोविघातो वा येन स्याद्विरमे ततः 033c यदि वास्ति कथायोगो योऽयं प्रश्नो मयेरितः 034a एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः 034c भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः