001 युधिष्ठिर उवाच 001a इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि 001c धर्मस्य शीलमेवादौ ततो मे संशयो महान् 002a यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर 002c श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते 003a कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत 003c किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर 004 भीष्म उवाच 004a पुरा दुर्योधनेनेह धृतराष्ट्राय मानद 004c आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् 005a इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह 005c सभायां चावहसनं तत्सर्वं शृणु भारत 006a भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् 006c दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् 007a श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा 007c अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः 008a किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः 008c श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि 009a यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय 009c किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा 010a आच्छादयसि प्रावारानश्नासि पिशितोदनम् 010c आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक 011 दुर्योधन उवाच 011a दश तानि सहस्राणि स्नातकानां महात्मनाम् 011c भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने 012a दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् 012c अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च 013a दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् 013c अमित्राणां सुमहतीमनुशोचामि मानद 014 धृतराष्ट्र उवाच 014a यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे 014c विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक 015a शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः 015c न हि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् 016a एकरात्रेण मान्धाता त्र्यहेण जनमेजयः 016c सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् 017a एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः 017c अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् 018a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 018c नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत 019a प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः 019c शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् 020a ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः 020c उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् 021a ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् 021c कथयामास भगवान्देवेन्द्राय कुरूद्वह 022a एतावच्छ्रेय इत्येव बृहस्पतिरभाषत 022c इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति 023 बृहस्पतिरुवाच 023a विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः 023c तत्रागमय भद्रं ते भूय एव पुरन्दर 024 धृतराष्ट्र उवाच 024a आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः 024c ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः 025a तेनापि समनुज्ञातो भार्गवेण महात्मना 025c श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः 026a भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः 026c ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् 027a स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः 027c सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् 028a प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ 028c त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते 029a ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् 029c ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् 030a ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने 030c तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा 031a ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् 031c चकार सर्वभावेन यद्वत्स मनसेच्छति 032a पृष्टश्च तेन बहुशः प्राप्तं कथमरिन्दम 032c त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे 033 प्रह्राद उवाच 033a नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन 033c कव्यानि वदतां तात संयच्छामि वहामि च 034a ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा 034c ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् 035a धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् 035c समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः 036a सोऽहं वागग्रपिष्टानां रसानामवलेहिता 036c स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः 037a एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् 037c यद्ब्राह्मणमुखे कव्यमेतच्छ्रुत्वा प्रवर्तते 038 धृतराष्ट्र उवाच 038a एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् 038c शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् 039a यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम 039c वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः 040a कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः 040c प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत 041 ब्राह्मण उवाच 041a यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् 041c भवतः शीलमिच्छामि प्राप्तुमेष वरो मम 042 धृतराष्ट्र उवाच 042a ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् 042c वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत 043a एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा 043c उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् 044a दत्ते वरे गते विप्रे चिन्तासीन्महती ततः 044c प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् 045a तस्य चिन्तयतस्तात छायाभूतं महाद्युते 045c तेजो विग्रहवत्तात शरीरमजहात्तदा 046a तमपृच्छन्महाकायं प्रह्रादः को भवानिति 046c प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया 047a तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् 047c योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः 047e इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो 048a तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः 048c शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् 049a धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः 049c तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् 050a ततोऽपरो महाराज प्रज्वलन्निव तेजसा 050c शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः 051a को भवानिति पृष्टश्च तमाह स महाद्युतिः 051c सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह 052a तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः 052c निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना 052e वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् 053a तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ 053c पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः 053e इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप 054a ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ 054c तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् 055a उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे 055c त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् 056a ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः 056c अपृच्छत च तां भूयः क्व यासि कमलालये 057a त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी 057c कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् 058 श्रीरुवाच 058a स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः 058c त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो 059a शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः 059c तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो 060a धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् 060c शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः 061 भीष्म उवाच 061a एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर 061c दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् 062a शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन 062c प्राप्यते च यथा शीलं तमुपायं वदस्व मे 063 धृतराष्ट्र उवाच 063a सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना 063c सङ्क्षेपतस्तु शीलस्य शृणु प्राप्तिं नराधिप 064a अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा 064c अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते 065a यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् 065c अपत्रपेत वा येन न तत्कुर्यात्कथञ्चन 066a तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि 066c एतच्छीलं समासेन कथितं कुरुसत्तम 067a यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् 067c न भुञ्जते चिरं तात समूलाश्च पतन्ति ते 068a एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक 068c यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् 069 भीष्म उवाच 069a एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप 069c एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्