001 युधिष्ठिर उवाच 001a तात धर्मार्थकामानां श्रोतुमिच्छामि निश्चयम् 001c लोकयात्रा हि कार्त्स्न्येन त्रिष्वेतेषु प्रतिष्ठिता 002a धर्मार्थकामाः किम्मूलास्त्रयाणां प्रभवश्च कः 002c अन्योन्यं चानुषज्जन्ते वर्तन्ते च पृथक्पृथक् 003 भीष्म उवाच 003a यदा ते स्युः सुमनसो लोकसंस्थार्थनिश्चये 003c कालप्रभवसंस्थासु सज्जन्ते च त्रयस्तदा 004a धर्ममूलस्तु देहोऽर्थः कामोऽर्थफलमुच्यते 004c सङ्कल्पमूलास्ते सर्वे सङ्कल्पो विषयात्मकः 005a विषयाश्चैव कार्त्स्न्येन सर्व आहारसिद्धये 005c मूलमेतत्त्रिवर्गस्य निवृत्तिर्मोक्ष उच्यते 006a धर्मः शरीरसङ्गुप्तिर्धर्मार्थं चार्थ इष्यते 006c कामो रतिफलश्चात्र सर्वे चैते रजस्वलाः 007a सन्निकृष्टांश्चरेदेनान्न चैनान्मनसा त्यजेत् 007c विमुक्तस्तमसा सर्वान्धर्मादीन्कामनैष्ठिकान् 008a श्रेष्ठबुद्धिस्त्रिवर्गस्य यदयं प्राप्नुयात्क्षणात् 008c बुद्ध्या बुध्येदिहार्थे न तदह्ना तु निकृष्टया 009a अपध्यानमलो धर्मो मलोऽर्थस्य निगूहनम् 009c सम्प्रमोदमलः कामो भूयः स्वगुणवर्तितः 010a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 010c कामन्दस्य च संवादमङ्गारिष्ठस्य चोभयोः 011a कामन्दमृषिमासीनमभिवाद्य नराधिपः 011c अङ्गारिष्ठोऽथ पप्रच्छ कृत्वा समयपर्ययम् 012a यः पापं कुरुते राजा काममोहबलात्कृतः 012c प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम् 013a अधर्मो धर्म इति ह योऽज्ञानादाचरेदिह 013c तं चापि प्रथितं लोके कथं राजा निवर्तयेत् 014 कामन्द उवाच 014a यो धर्मार्थौ समुत्सृज्य काममेवानुवर्तते 014c स धर्मार्थपरित्यागात्प्रज्ञानाशमिहार्छति 015a प्रज्ञाप्रणाशको मोहस्तथा धर्मार्थनाशकः 015c तस्मान्नास्तिकता चैव दुराचारश्च जायते 016a दुराचारान्यदा राजा प्रदुष्टान्न नियच्छति 016c तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव 017a तं प्रजा नानुवर्तन्ते ब्राह्मणा न च साधवः 017c ततः सङ्क्षयमाप्नोति तथा वध्यत्वमेति च 018a अपध्वस्तस्त्ववमतो दुःखं जीवति जीवितम् 018c जीवेच्च यदपध्वस्तस्तच्छुद्धं मरणं भवेत् 019a अत्रैतदाहुराचार्याः पापस्य च निबर्हणम् 019c सेवितव्या त्रयी विद्या सत्कारो ब्राह्मणेषु च 020a महामना भवेद्धर्मे विवहेच्च महाकुले 020c ब्राह्मणांश्चापि सेवेत क्षमायुक्तान्मनस्विनः 021a जपेदुदकशीलः स्यात्सुमुखो नान्यदास्थितः 021c धर्मान्वितान्सम्प्रविशेद्बहिः कृत्वैव दुष्कृतीन् 022a प्रसादयेन्मधुरया वाचाप्यथ च कर्मणा 022c इत्यस्मीति वदेन्नित्यं परेषां कीर्तयन्गुणान् 023a अपापो ह्येवमाचारः क्षिप्रं बहुमतो भवेत् 023c पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः 024a गुरवोऽपि परं धर्मं यद्ब्रूयुस्तत्तथा कुरु 024c गुरूणां हि प्रसादाद्धि श्रेयः परमवाप्स्यसि