001 भीष्म उवाच 001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001c अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः 002a स राजा धर्मनित्यः सन्सह पत्न्या महातपाः 002c मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् 003a तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते 003c यत्र मुञ्जवटे रामो जटाहरणमादिशत् 004a तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः 004c मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः 005a स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः 005c ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् 006a तं कदाचिददीनात्मा सखा शक्रस्य मानितः 006c अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः 007a सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् 007c दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत 008a वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् 008c अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा 009a सद्भिराचरितं पूर्वं यथावदनुयायिनम् 009c अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते 010a सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम् 010c वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन 011a बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया 011c तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप 012a तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् 012c किं वापि पूर्वं जागर्ति किं वा परममुच्यते 013a कथं क्षत्रियसंस्थश्च दण्डः सम्प्रत्यवस्थितः 013c ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् 014 वसुहोम उवाच 014a शृणु राजन्यथा दण्डः सम्भूतो लोकसङ्ग्रहः 014c प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः 015a ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः 015c ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् 016a स गर्भं शिरसा देवो वर्षपूगानधारयत् 016c पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् 017a स क्षुपो नाम सम्भूतः प्रजापतिररिन्दम 017c ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः 018a तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ 018c हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् 019a तस्मिन्नन्तर्हिते चाथ प्रजानां सङ्करोऽभवत् 019c नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते 020a पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम् 020c गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् 021a परस्परं विलुम्पन्ते सारमेया इवामिषम् 021c अबलं बलिनो जघ्नुर्निर्मर्यादमवर्तत 022a ततः पितामहो विष्णुं भगवन्तं सनातनम् 022c सम्पूज्य वरदं देवं महादेवमथाब्रवीत् 023a अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम् 023c सङ्करो न भवेदत्र यथा वै तद्विधीयताम् 024a ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः 024c आत्मानमात्मना दण्डमसृजद्देवसत्तमः 025a तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम् 025c असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता 026a भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः 026c तस्य तस्य निकायस्य चकारैकैकमीशरम् 027a देवानामीश्वरं चक्रे देवं दशशतेक्षणम् 027c यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् 028a धनानां रक्षसां चापि कुबेरमपि चेश्वरम् 028c पर्वतानां पतिं मेरुं सरितां च महोदधिम् 029a अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् 029c मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् 030a रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः 030c महात्मानं महादेवं विशालाक्षं सनातनम् 031a वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् 031c तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् 032a वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम् 032c कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् 033a कालं सर्वेशमकरोत्संहारविनयात्मकम् 033c मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च 034a ईश्वरः सर्वदेहस्तु राजराजो धनाधिपः 034c सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः 035a तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ 035c प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि 036a महादेवस्ततस्तस्मिन्वृत्ते यज्ञे यथाविधि 036c दण्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ 037a विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः 037c प्रादादिन्द्रमरीचिभ्यां मरीचिर्भृगवे ददौ 038a भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम् 038c ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च 039a क्षुपस्तु मनवे प्रादादादित्यतनयाय च 039c पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् 039e तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् 040a विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया 040c दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया 041a व्यङ्गत्वं च शरीरस्य वधो वा नाल्पकारणात् 041c शरीरपीडास्तास्तास्तु देहत्यागो विवासनम् 042a आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन् 042c इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः 043a अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः 043c प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः 044a धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः 044c व्यवसायात्ततस्तेजो जागर्ति परिपालयन् 045a ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः 045c पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा 046a जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि 046c वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः 047a ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः 047c पितामहान्महादेवो जागर्ति भगवाञ्शिवः 048a विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः 048c ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः 049a देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय 049c ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः 049e स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् 050a प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च 050c सर्वसङ्क्षेपको दण्डः पितामहसमः प्रभुः 051a जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत 051c ईश्वरः सर्वलोकस्य महादेवः प्रजापतिः 052a देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः 052c कपर्दी शङ्करो रुद्रो भवः स्थाणुरुमापतिः 053a इत्येष दण्डो विख्यात आदौ मध्ये तथावरे 053c भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् 054 भीष्म उवाच 054a इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः 054c श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः 055a इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ 055c नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत