001 युधिष्ठिर उवाच 001a अयं पितामहेनोक्तो राजधर्मः सनातनः 001c ईश्वरश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् 002a देवतानामृषीणां च पितॄणां च महात्मनाम् 002c यक्षरक्षःपिशाचानां मर्त्यानां च विशेषतः 003a सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् 003c सर्वव्यापी महातेजा दण्डः श्रेयानिति प्रभो 004a इत्येतदुक्तं भवता सर्वं दण्ड्यं चराचरम् 004c दृश्यते लोकमासक्तं ससुरासुरमानुषम् 005a एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ 005c को दण्डः कीदृशो दण्डः किंरूपः किम्परायणः 006a किमात्मकः कथम्भूतः कतिमूर्तिः कथम्प्रभुः 006c जागर्ति स कथं दण्डः प्रजास्ववहितात्मकः 007a कश्च पूर्वापरमिदं जागर्ति परिपालयन् 007c कश्च विज्ञायते पूर्वं कोऽपरो दण्डसञ्ज्ञितः 007e किंसंस्थश्च भवेद्दण्डः का चास्य गतिरिष्यते 008 भीष्म उवाच 008a शृणु कौरव्य यो दण्डो व्यवहार्यो यथा च सः 008c यस्मिन्हि सर्वमायत्तं स दण्ड इह केवलः 009a धर्मस्याख्या महाराज व्यवहार इतीष्यते 009c तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः 009e इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते 010a अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः 010c सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना 010e प्रजा रक्षति यः सम्यग्धर्म एव स केवलः 011a अथोक्तमेतद्वचनं प्रागेव मनुना पुरा 011c जन्म चोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् 012a प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः 012c व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते 013a दण्डात्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते 013c दैवं हि परमो दण्डो रूपतोऽग्निरिवोच्छिखः 014a नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः 014c अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् 015a जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः 015c एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरावरः 016a असिर्गदा धनुः शक्तिस्त्रिशूलं मुद्गरः शरः 016c मुसलं परशुश्चक्रं प्रासो दण्डर्ष्टितोमराः 017a सर्वप्रहरणीयानि सन्ति यानीह कानिचित् 017c दण्ड एव हि सर्वात्मा लोके चरति मूर्तिमान् 018a भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा 018c घातयन्नभिधावंश्च दण्ड एव चरत्युत 019a असिर्विशसनो धर्मस्तीक्ष्णवर्त्मा दुरासदः 019c श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः 020a शास्त्रं ब्राह्मणमन्त्रश्च शास्ता प्राग्वचनं गतः 020c धर्मपालोऽक्षरो देवः सत्यगो नित्यगो ग्रहः 021a असङ्गो रुद्रतनयो मनुज्येष्ठः शिवङ्करः 021c नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर 022a दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः 022c शश्वद्रूपं महद्बिभ्रन्महापुरुष उच्यते 023a यथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती 023c दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः 024a अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले 024c दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ 025a कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः 025c अप्रसादः प्रसादश्च हर्षः क्रोधः शमो दमः 026a दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये 026c हिंसाहिंसे तपो यज्ञः संयमोऽथ विषाविषम् 027a अन्तश्चादिश्च मध्यं च कृत्यानां च प्रपञ्चनम् 027c मदः प्रमादो दर्पश्च दम्भो धैर्यं नयानयौ 028a अशक्तिः शक्तिरित्येव मानस्तम्भौ व्ययाव्ययौ 028c विनयश्च विसर्गश्च कालाकालौ च भारत 029a अनृतं ज्ञाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च 029c क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ 030a तीक्ष्णता मृदुता मृत्युरागमानागमौ तथा 030c विराद्धिश्चैव राद्धिश्च कार्याकार्ये बलाबले 031a असूया चानसूया च धर्माधर्मौ तथैव च 031c अपत्रपानपत्रपे ह्रीश्च सम्पद्विपच्च ह 032a तेजः कर्मणि पाण्डित्यं वाक्शक्तिस्तत्त्वबुद्धिता 032c एवं दण्डस्य कौरव्य लोकेऽस्मिन्बहुरूपता 033a न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् 033c भयाद्दण्डस्य चान्योन्यं घ्नन्ति नैव युधिष्ठिर 034a दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः 034c राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् 035a व्यवस्थापयति क्षिप्रमिमं लोकं नरेश्वर 035c सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते 036a धर्मयुक्ता द्विजाः श्रेष्ठा वेदयुक्ता भवन्ति च 036c बभूव यज्ञो वेदेभ्यो यज्ञः प्रीणाति देवताः 037a प्रीताश्च देवता नित्यमिन्द्रे परिददत्युत 037c अन्नं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः 038a प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः 038c तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च 039a एवम्प्रयोजनश्चैव दण्डः क्षत्रियतां गतः 039c रक्षन्प्रजाः प्रजागर्ति नित्यं सुविहितोऽक्षरः 040a ईश्वरः पुरुषः प्राणः सत्त्वं वित्तं प्रजापतिः 040c भूतात्मा जीव इत्येव नामभिः प्रोच्यतेऽष्टभिः 041a अददद्दण्ड एवास्मै ध्रुवमैश्वर्यमेव च 041c बले नयश्च संयुक्तः सदा पञ्चविधात्मकः 042a कुलबाहुधनामात्याः प्रज्ञा चोक्ता बलानि च 042c आहार्यं चाष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर 043a हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च 043c दैशिकाश्चारकाश्चैव तदष्टाङ्गं बलं स्मृतम् 044a अष्टाङ्गस्य तु युक्तस्य हस्तिनो हस्तियायिनः 044c अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये 045a भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः 045c कोशो मित्राणि धान्यं च सर्वोपकरणानि च 046a सप्तप्रकृति चाष्टाङ्गं शरीरमिह यद्विदुः 046c राज्यस्य दण्ड एवाङ्गं दण्डः प्रभव एव च 047a ईश्वरेण प्रयत्नेन धारणे क्षत्रियस्य हि 047c दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् 047e राज्ञां पूज्यतमो नान्यो यथाधर्मप्रदर्शनः 048a ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च 048c भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथापरः 048e तस्माद्यः सहितो दृष्टो भर्तृप्रत्ययलक्षणः 049a व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते 049c मौलश्च नरशार्दूल शास्त्रोक्तश्च तथापरः 050a उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः 050c ज्ञेयो न स नरेन्द्रस्थो दण्डप्रत्यय एव च 051a दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः 051c व्यवहारः स्मृतो यश्च स वेदविषयात्मकः 052a यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शकः 052c धर्मप्रत्यय उत्पन्नो यथाधर्मः कृतात्मभिः 053a व्यवहारः प्रजागोप्ता ब्रह्मदिष्टो युधिष्ठिर 053c त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः 054a यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः 054c व्यवहारश्च यो दृष्टः स धर्म इति नः श्रुतः 054e यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः 055a ब्रह्मा प्रजापतिः पूर्वं बभूवाथ पितामहः 055c लोकानां स हि सर्वेषां ससुरासुररक्षसाम् 055e समनुष्योरगवतां कर्ता चैव स भूतकृत् 056a ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः 056c तस्मादिदमवोचाम व्यवहारनिदर्शनम् 057a माता पिता च भ्राता च भार्या चाथ पुरोहितः 057c नादण्ड्यो विद्यते राज्ञां यः स्वधर्मे न तिष्ठति