001 युधिष्ठिर उवाच 001a राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत 001c पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः 002a तदेव विस्तरेणोक्तं पूर्वैर्दृष्टं सतां मतम् 002c प्रणयं राजधर्माणां प्रब्रूहि भरतर्षभ 003 भीष्म उवाच 003a रक्षणं सर्वभूतानामिति क्षत्रे परं मतम् 003c तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते 004a यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः 004c तथा बहुविधं राजा रूपं कुर्वीत धर्मवित् 005a तैक्ष्ण्यं जिह्मत्वमादान्त्यं सत्यमार्जवमेव च 005c मध्यस्थः सत्त्वमातिष्ठंस्तथा वै सुखमृच्छति 006a यस्मिन्नर्थे हितं यत्स्यात्तद्वर्णं रूपमाविशेत् 006c बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति 007a नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी 007c श्लक्ष्णाक्षरतनुः श्रीमान्भवेच्छास्त्रविशारदः 008a आपद्द्वारेषु यत्तः स्याज्जलप्रस्रवणेष्विव 008c शैलवर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् 009a अर्थकामः शिखां राजा कुर्याद्धर्मध्वजोपमाम् 009c नित्यमुद्यतदण्डः स्यादाचरेच्चाप्रमादतः 009e लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाप्लवन् 010a मृजावान्स्यात्स्वयूथ्येषु भावानि चरणैः क्षिपेत् 010c जातपक्षः परिस्पन्देद्रक्षेद्वैकल्यमात्मनः 011a दोषान्विवृणुयाच्छत्रोः परपक्षान्विधूनयेत् 011c काननेष्विव पुष्पाणि बर्हीवार्थान्समाचरेत् 012a उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान् 012c श्रयेच्छायामविज्ञातां गुप्तं शरणमाश्रयेत् 013a प्रावृषीवासितग्रीवो मज्जेत निशि निर्जने 013c मायूरेण गुणेनैव स्त्रीभिश्चालक्षितश्चरेत् 013e न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना 014a चारभूमिष्वभिगमान्पाशांश्च परिवर्जयेत् 014c पीडयेच्चापि तां भूमिं प्रणश्येद्गहने पुनः 015a हन्यात्क्रुद्धानतिविषान्ये जिह्मगतयोऽहितान् 015c नाश्रयेद्बालबर्हाणि सन्निवासानि वासयेत् 016a सदा बर्हिनिभः कामं प्रसक्तिकृतमाचरेत् 016c सर्वतश्चाददेत्प्रज्ञां पतङ्गान्गहनेष्विव 016e एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत् 017a आत्मवृद्धिकरीं नीतिं विदधीत विचक्षणः 017c आत्मसंयमनं बुद्ध्या परबुद्ध्यावतारणम् 017e बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् 018a परं चाश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् 018c आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् 018e सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः 019a निगूढबुद्धिर्धीरः स्याद्वक्तव्ये वक्ष्यते तथा 019c सन्निकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः 019e स्वभावमेष्यते तप्तं कृष्णायसमिवोदके 020a अनुयुञ्जीत कृत्यानि सर्वाण्येव महीपतिः 020c आगमैरुपदिष्टानि स्वस्य चैव परस्य च 021a क्षुद्रं क्रूरं तथा प्राज्ञं शूरं चार्थविशारदम् 021c स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः 022a अप्यदृष्ट्वा नियुक्तानि अनुरूपेषु कर्मसु 022c सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायता 023a धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् 023c ममायमिति राजा यः स पर्वत इवाचलः 024a व्यवसायं समाधाय सूर्यो रश्मिमिवायताम् 024c धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये 025a कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः 025c मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितेन्द्रियान् 026a अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् 026c स्थापयेत्सर्वकार्येषु राजा धर्मार्थरक्षिणः 027a एतेनैव प्रकारेण कृत्यानामागतिं गतिम् 027c युक्तः समनुतिष्ठेत तुष्टश्चारैरुपस्कृतः 028a अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः 028c आत्मप्रत्ययकोशस्य वसुधैव वसुन्धरा 029a व्यक्तश्चानुग्रहो यस्य यथार्थश्चापि निग्रहः 029c गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित् 030a नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवोत्पतन् 030c चारांश्च नचरान्विद्यात्तथा बुद्ध्या न सञ्ज्वरेत् 031a कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् 031c अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान् 032a यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः 032c तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम् 033a यद्धि गुप्तावशिष्टं स्यात्तद्धितं धर्मकामयोः 033c सञ्चयानुविसर्गी स्याद्राजा शास्त्रविदात्मवान् 034a नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान् 034c बुद्ध्यावबुध्येदात्मानं न चाबुद्धिषु विश्वसेत् 035a धृतिर्दाक्ष्यं संयमो बुद्धिरग्र्या धैर्यं शौर्यं देशकालोऽप्रमादः 035c स्वल्पस्य वा महतो वापि वृद्धौ धनस्यैतान्यष्ट समिन्धनानि 036a अग्निस्तोको वर्धते ह्याज्यसिक्तो बीजं चैकं बहुसाहस्रमेति 036c क्षयोदयौ विपुलौ सन्निशाम्य तस्मादल्पं नावमन्येत विद्वान् 037a बालोऽबालः स्थविरो वा रिपुर्यः सदा प्रमत्तं पुरुषं निहन्यात् 037c कालेनान्यस्तस्य मूलं हरेत; कालज्ञाता पार्थिवानां वरिष्ठः 038a हरेत्कीर्तिं धर्ममस्योपरुन्ध्यादर्थे दीर्घं वीर्यमस्योपहन्यात् 038c रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रौ नैव हेडेद्यतात्मा 039a क्षयं शत्रोः सञ्चयं पालनं चाप्युभौ चार्थौ सहितौ धर्मकामौ 039c अतश्चान्यन्मतिमान्सन्दधीत तस्माद्राजा बुद्धिमन्तं श्रयेत 040a बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या वर्धते पाल्यमानम् 040c शत्रुर्बुद्ध्या सीदते वर्धमानो बुद्धेः पश्चात्कर्म यत्तत्प्रशस्तम् 041a सर्वान्कामान्कामयानो हि धीरः सत्त्वेनाल्पेनाप्लुते हीनदेहः 041c यथात्मानं प्रार्थयतेऽर्थमानैः श्रेयःपात्रं पूरयते ह्यनल्पम् 042a तस्माद्राजा प्रगृहीतः परेषु मूलं लक्ष्म्याः सर्वतोऽभ्याददीत 042c दीर्घं कालमपि सम्पीड्यमानो विद्युत्सम्पातमिव मानोर्जितः स्यात् 043a विद्या तपो वा विपुलं धनं वा सर्वमेतद्व्यवसायेन शक्यम् 043c ब्रह्म यत्तं निवसति देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम् 044a यत्रासते मतिमन्तो मनस्विनः शक्रो विष्णुर्यत्र सरस्वती च 044c वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम् 045a लुब्धं हन्यात्सम्प्रदानेन नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति 045c सर्वो लुब्धः कर्मगुणोपभोगे योऽर्थैर्हीनो धर्मकामौ जहाति 046a धनं भोज्यं पुत्रदारं समृद्धिं सर्वो लुब्धः प्रार्थयते परेषाम् 046c लुब्धे दोषाः सम्भवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत लुब्धान् 047a सन्दर्शने सत्पुरुषं जघन्यमपि चोदयेत् 047c आरम्भान्द्विषतां प्राज्ञः सर्वानर्थांस्तु सूदयेत् 048a धर्मान्वितेषु विज्ञातो मन्त्री गुप्तश्च पाण्डव 048c आप्तो राजन्कुलीनश्च पर्याप्तो राज्यसङ्ग्रहे 049a विधिप्रवृत्तान्नरदेवधर्मानुक्तान्समासेन निबोध बुद्ध्या 049c इमान्विदध्याद्व्यनुसृत्य यो वै राजा महीं पालयितुं स शक्तः 050a अनीतिजं यद्यविधानजं सुखं हठप्रणीतं विविधं प्रदृश्यते 050c न विद्यते तस्य गतिर्महीपतेर्न विद्यते राष्ट्रजमुत्तमं सुखम् 051a धनैर्विशिष्टान्मतिशीलपूजितान्गुणोपपन्नान्युधि दृष्टविक्रमान् 051c गुणेषु दृष्टानचिरादिहात्मवान्सतोऽभिसन्धाय निहन्ति शात्रवान् 052a पश्येदुपायान्विविधैः क्रियापथैर्न चानुपायेन मतिं निवेशयेत् 052c श्रियं विशिष्टां विपुलं यशो धनं न दोषदर्शी पुरुषः समश्नुते 053a प्रीतिप्रवृत्तौ विनिवर्तने तथा सुहृत्सु विज्ञाय निवृत्य चोभयोः 053c यदेव मित्रं गुरुभारमावहेत्तदेव सुस्निग्धमुदाहरेद्बुधः 054a एतान्मयोक्तांस्तव राजधर्मान्नृणां च गुप्तौ मतिमादधत्स्व 054c अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोकोत्तमधर्ममूलः