001 भीष्म उवाच 001a एवं शुनासमान्भृत्यान्स्वस्थाने यो नराधिपः 001c नियोजयति कृत्येषु स राज्यफलमश्नुते 002a न श्वा स्वस्थानमुत्क्रम्य प्रमाणमभि सत्कृतः 002c आरोप्यः श्वा स्वकात्स्थानादुत्क्रम्यान्यत्प्रपद्यते 003a स्वजातिकुलसम्पन्नाः स्वेषु कर्मस्ववस्थिताः 003c प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा 004a अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति 004c स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते 005a शरभः शरभस्थाने सिंहः सिंह इवोर्जितः 005c व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा 006a कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि 006c प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा 007a यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः 007c भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः 008a न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः 008c नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा 009a साधवः कुशलाः शूरा ज्ञानवन्तोऽनसूयकाः 009c अक्षुद्राः शुचयो दक्षा नराः स्युः पारिपार्श्वकाः 010a न्यग्भूतास्तत्पराः क्षान्ताश्चौक्षाः प्रकृतिजाः शुभाः 010c स्वे स्वे स्थानेऽपरिक्रुष्टास्ते स्यू राज्ञो बहिश्चराः 011a सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् 011c असिंहः सिंहसहितः सिंहवल्लभते फलम् 012a यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः 012c न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः 013a एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः 013c कुलीनैः सह शक्येत कृत्स्नां जेतुं वसुन्धराम् 014a नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः 014c सङ्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर 015a बाणवद्विसृता यान्ति स्वामिकार्यपरा जनाः 015c ये भृत्याः पार्थिवहितास्तेषां सान्त्वं प्रयोजयेत् 016a कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः 016c कोशमूला हि राजानः कोशमूलकरो भव 017a कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसञ्चितम् 017c सदास्तु सत्सु सन्न्यस्तं धनधान्यपरो भव 018a नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः 018c वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते 019a ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसंवृतः 019c पौरकार्यहितान्वेषी भव कौरवनन्दन 020a एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया 020c श्वा ते निदर्शनं तात किं भूयः श्रोतुमिच्छसि