001 भीष्म उवाच 001a स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् 001c ऋषिणा हुङ्कृतः पापस्तपोवनबहिष्कृतः 002a एवं राज्ञा मतिमता विदित्वा शीलशौचताम् 002c आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् 003a अनुक्रोशं बलं वीर्यं भावं सम्प्रशमं क्षमाम् 003c भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः 004a नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति 004c अकुलीननराकीर्णो न राजा सुखमेधते 005a कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा 005c न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि 006a अकुलीनस्तु पुरुषः प्रकृतः साधुसङ्क्षयात् 006c दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् 007a कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् 007c सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा 008a कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् 008c अलुब्धं लब्धसन्तुष्टं स्वामिमित्रबुभूषकम् 009a सचिवं देशकालज्ञं सर्वसङ्ग्रहणे रतम् 009c सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम् 010a युक्ताचारं स्वविषये सन्धिविग्रहकोविदम् 010c राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम् 011a खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् 011c इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् 012a हस्तिशिक्षासु तत्त्वज्ञमहङ्कारविवर्जितम् 012c प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् 013a चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् 013c नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् 014a अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च 014c धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् 015a सचिवं यः प्रकुरुते न चैनमवमन्यते 015c तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव 016a एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः 016c एष्टव्यो धर्मपरमः प्रजापालनतत्परः 017a धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् 017c शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः 018a मेधावी धारणायुक्तो यथान्यायोपपादकः 018c दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये 019a दानाच्छेदे स्वयङ्कारी सुद्वारः सुखदर्शनः 019c आर्तहस्तप्रदो नित्यमाप्तम्मन्यो नये रतः 020a नाहंवादी न निर्द्वन्द्वो न यत्किञ्चनकारकः 020c कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः 021a सङ्गृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा 021c दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः 022a युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः 022c चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा 023a राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् 023c योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः 024a अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः 024c न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता 025a योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः 025c धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः 026a अर्थमानविवृद्धाश्च रथचर्याविशारदाः 026c इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही 027a सर्वसङ्ग्रहणे युक्तो नृपो भवति यः सदा 027c उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः 028a शक्या अश्वसहस्रेण वीरारोहेण भारत 028c सङ्गृहीतमनुष्येण कृत्स्ना जेतुं वसुन्धरा