001 भीष्म उवाच 001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001c निदर्शनकरं लोके सज्जनाचरितं सदा 002a अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने 002c जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः 003a वने महति कस्मिंश्चिदमनुष्यनिषेविते 003c ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः 004a दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः 004c उपवासविशुद्धात्मा सततं सत्पथे स्थितः 005a तस्य सन्दृश्य सद्भावमुपविष्टस्य धीमतः 005c सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः 006a सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः 006c द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः 007a ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः 007c तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः 008a दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् 008c ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम् 009a भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः 009c फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा 010a तस्यर्षेरुपविष्टस्य पादमूले महामुनेः 010c मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम् 011a ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः 011c श्वार्थमत्यन्तसन्दुष्टः क्रूरः काल इवान्तकः 012a लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः 012c व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम् 013a तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप 013c प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते 014a श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति 014c त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने 015 मुनिरुवाच 015a न भयं द्वीपिनः कार्यं मृत्युतस्ते कथञ्चन 015c एष श्वरूपरहितो द्वीपी भवसि पुत्रक 016 भीष्म उवाच 016a ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः 016c चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः 017a ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः 017c द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः 018a व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् 018c द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान् 019a ततः संवासजं स्नेहमृषिणा कुर्वता सदा 019c स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः 019e ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशाम्पते 020a स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः 020c न मूलफलभोगेषु स्पृहामप्यकरोत्तदा 021a यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः 021c तथैव स महाराज व्याघ्रः समभवत्तदा 022a व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः 022c नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः 023a प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः 023c सुविषाणो महाकायो मेघगम्भीरनिस्वनः 024a तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम् 024c व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ 025a ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः 025c महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः 026a ततः कमलषण्डानि शल्लकीगहनानि च 026c व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः 027a कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा 027c ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् 028a अथाजगाम तं देशं केसरी केसरारुणः 028c गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः 029a तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः 029c ऋषिं शरणमापेदे वेपमानो भयातुरः 030a ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा 030c वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात् 031a दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः 031c स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी 032a न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः 032c व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा 033a कदाचित्कालयोगेन सर्वप्राणिविहिंसकः 033c बलवान्क्षतजाहारो नानासत्त्वभयङ्करः 034a अष्टपादूर्ध्वचरणः शरभो वनगोचरः 034c तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् 035a तं मुनिः शरभं चक्रे बलोत्कटमरिन्दम 035c ततः स शरभो वन्यो मुनेः शरभमग्रतः 035e दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्भयात् 036a स एवं शरभस्थाने न्यस्तो वै मुनिना तदा 036c मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान् 037a ततः शरभसन्त्रस्ताः सर्वे मृगगणा वनात् 037c दिशः सम्प्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः 038a शरभोऽप्यतिसन्दुष्टो नित्यं प्राणिवधे रतः 038c फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः 039a ततो रुधिरतर्षेण बलिना शरभोऽन्वितः 039c इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः 040a ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा 040c विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान् 041a श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः 041c व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान् 042a सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः 042c मया स्नेहपरीतेन न विमृष्टः कुलान्वयः 043a यस्मादेवमपापं मां पाप हिंसितुमिच्छसि 043c तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि 044a ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः 044c ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान्