001 युधिष्ठिर उवाच 001a पितामह महाप्राज्ञ संशयो मे महानयम् 001c स च्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः 002a पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् 002c कथितो वाक्यसञ्चारस्ततो विज्ञापयामि ते 003a यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् 003c आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत् 004a पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् 004c अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे 005a अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः 005c असुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः 006a यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः 006c इन्द्रियाणामनीशत्वादसज्जनबुभूषकः 007a तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः 007c न च भृत्यफलैरर्थैः स राजा सम्प्रयुज्यते 008a एतान्मे संशयस्थस्य राजधर्मान्सुदुर्लभान् 008c बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति 009a शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः 009c क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा 010a त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् 010c अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् 011a कीदृषाः सन्निकर्षस्था भृत्याः स्युर्वा गुणान्विताः 011c कीदृशैः किङ्कुलीनैर्वा सह यात्रा विधीयते 012a न ह्येको भृत्यरहितो राजा भवति रक्षिता 012c राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति 013a न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत 013c असहायवता तात नैवार्थाः केचिदप्युत 013e लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ 014 भीष्म उवाच 014a यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः 014c हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते 015a मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः 015c नृपतेर्मतिदाः सन्ति सम्बन्धज्ञानकोविदाः 016a अनागतविधातारः कालज्ञानविशारदाः 016c अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते 017a समदुःखसुखा यस्य सहायाः सत्यकारिणः 017c अर्थचिन्तापरा यस्य स राज्यफलमश्नुते 018a यस्य नार्तो जनपदः सन्निकर्षगतः सदा 018c अक्षुद्रः सत्पथालम्बी स राज्यफलभाग्भवेत् 019a कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः 019c आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः 020a कोष्ठागारमसंहार्यैराप्तैः सञ्चयतत्परैः 020c पात्रभूतैरलुब्धैश्च पाल्यमानं गुणीभवेत् 021a व्यवहारश्च नगरे यस्य कर्मफलोदयः 021c दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत् 022a सङ्गृहीतमनुष्यश्च यो राजा राजधर्मवित् 022c षड्वर्गं प्रतिगृह्णन्स धर्मात्फलमुपाश्नुते