001 युधिष्ठिर उवाच 001a विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत 001c आक्रुश्यमानः सदसि कथं कुर्यादरिन्दम 002 भीष्म उवाच 002a श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते 002c सदा सुचेताः सहते नरस्येहाल्पचेतसः 003a अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति 003c दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै 004a टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम् 004c लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते 005a इति स श्लाघते नित्यं तेन पापेन कर्मणा 005c इदमुक्तो मया कश्चित्सम्मतो जनसंसदि 005e स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति 006a श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः 006c उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः 007a यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा 007c प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति 007e वने काक इवाबुद्धिर्वाशमानो निरर्थकम् 008a यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः 008c वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः 009a निषेकं विपरीतं स आचष्टे वृत्तचेष्टया 009c मयूर इव कौपीनं नृत्यन्सन्दर्शयन्निव 010a यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किञ्चन 010c वाचं तेन न सन्दध्याच्छुचिः सङ्क्लिष्टकर्मणा 011a प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः 011c स मानवः श्ववल्लोके नष्टलोकपरायणः 012a तादृग्जनशतस्यापि यद्ददाति जुहोति च 012c परोक्षेणापवादेन तन्नाशयति स क्षणात् 013a तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् 013c वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा 014a परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने 014c प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम् 015a तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति 015c भस्मकूट इवाबुद्धिः खरो रजसि मज्जति 016a मनुष्यशालावृकमप्रशान्तं जनापवादे सततं निविष्टम् 016c मातङ्गमुन्मत्तमिवोन्नदन्तं त्यजेत तं श्वानमिवातिरौद्रम् 017a अधीरजुष्टे पथि वर्तमानं दमादपेतं विनयाच्च पापम् 017c अरिव्रतं नित्यमभूतिकामं धिगस्तु तं पापमतिं मनुष्यम् 018a प्रत्युच्यमानस्तु हि भूय एभिर्निशाम्य मा भूस्त्वमथार्तरूपः 018c उच्चस्य नीचेन हि सम्प्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये 019a क्रुद्धो दशार्धेन हि ताडयेद्वा स पांसुभिर्वापकिरेत्तुषैर्वा 019c विवृत्य दन्तांश्च विभीषयेद्वा सिद्धं हि मूर्खे कुपिते नृशंसे 020a विगर्हणां परमदुरात्मना कृतां सहेत यः संसदि दुर्जनान्नरः 020c पठेदिदं चापि निदर्शनं सदा न वाङ्मयं स लभति किञ्चिदप्रियम्