001 युधिष्ठिर उवाच 001a राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ 001c अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c सरितां चैव संवादं सागरस्य च भारत 003a सुरारिनिलयः शश्वत्सागरः सरितां पतिः 003c पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः 004a समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान् 004c युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम् 005a अकायश्चाल्पसारश्च वेतसः कूलजश्च वः 005c अवज्ञाय न शक्यो वा किञ्चिद्वा तेन वः कृतम् 006a तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् 006c यथा कूलानि चेमानि भित्त्वा नानीयते वशम् 007a ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् 007c हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् 008a तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः 008c ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः 009a वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः 009c स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति 010a कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः 010c अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः 011a मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च 011c ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् 012a यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने 012c पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति 013a सारासारं बलं वीर्यमात्मनो द्विषतश्च यः 013c जानन्विचरति प्राज्ञो न स याति पराभवम् 014a एवमेव यदा विद्वान्मन्येतातिबलं रिपुम् 014c संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम्