001 युधिष्ठिर उवाच 001a किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् 001c तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर 002 भीष्म उवाच 002a हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् 002c यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् 003a न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः 003c उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर 004a जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः 004c तपः सुमहदातिष्ठदरण्ये संशितव्रतः 005a तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः 005c वरेण छन्दयामास ततश्चैनं पितामहः 006 उष्ट्र उवाच 006a भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् 006c योजनानां शतं साग्रं या गच्छेच्चरितुं विभो 007 भीष्म उवाच 007a एवमस्त्विति चोक्तः स वरदेन महात्मना 007c प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् 008a स चकार तदालस्यं वरदानात्स दुर्मतिः 008c न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः 009a स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम् 009c चचाराश्रान्तहृदयो वातश्चागात्ततो महान् 010a स गुहायां शिरोग्रीवं निधाय पशुरात्मनः 010c आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत् 011a अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः 011c सदारस्तां गुहामाशु प्रविवेश जलार्दितः 012a स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः 012c अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ 013a यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः 013c तदा सङ्कोचने यत्नमकरोद्भृशदुःखितः 014a यावदूर्ध्वमधश्चैव ग्रीवां सङ्क्षिपते पशुः 014c तावत्तेन सदारेण जम्बुकेन स भक्षितः 015a स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा 015c विगते वातवर्षे च निश्चक्राम गुहामुखात् 016a एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा 016c आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम् 017a त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः 017c वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत् 018a बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत 018c तानि जङ्घाजघन्यानि भारप्रत्यवराणि च 019a राज्यं तिष्ठति दक्षस्य सङ्गृहीतेन्द्रियस्य च 019c गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ 020a परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर 020c सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् 021a इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभाव 021c मयापि चोक्तं तव शास्त्रदृष्ट्या त्वमत्र युक्तः प्रचरस्व राजन्