001 युधिष्ठिर उवाच 001a असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः 001c ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम् 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर 003a पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः 003c परहिंसारुचिः क्रूरो बभूव पुरुषाधमः 004a स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम् 004c गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा 005a संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः 005c न भक्षयति मांसानि परैरुपहृतान्यपि 006a अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः 006c चकार च यथाकाममाहारं पतितैः फलैः 007a श्मशाने तस्य चावासो गोमायोः सम्मतोऽभवत् 007c जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत् 008a तस्य शौचममृष्यन्तः सर्वे ते सहजातयः 008c चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः 009a वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि 009c इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः 010a तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम् 010c भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते 011a इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः 011c मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः 012a अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम् 012c प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः 013a श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम् 013c आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम् 014a आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे 014c किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत् 015a भवन्तः सर्वलोभेन केवलं भक्षणे रताः 015c अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः 016a अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम् 016c इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये 017a तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः 017c कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम् 018a सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह 018c व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः 019a तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे 019c मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति 020a अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः 020c गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः 021a सदृशं मृगराजैतत्तव वाक्यं मदन्तरे 021c यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन् 022a न शक्यमनमात्येन महत्त्वमनुशासितुम् 022c दुष्टामात्येन वा वीर शरीरपरिपन्थिना 023a सहायाननुरक्तांस्तु यतेतानुपसंहितान् 023c परस्परमसङ्घुष्टान्विजिगीषूनलोलुपान् 024a तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः 024c पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन् 025a न त्वेवं मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप 025c न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम् 026a न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः 026c ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे 027a संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम् 027c कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः 028a दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः 028c कृती चामोघकर्तासि भाव्यैश्च समलङ्कृतः 029a किं तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता 029c सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः 030a राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम् 030c वनचर्या च निःसङ्गा निर्भया निरवग्रहा 031a नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि 031c न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम् 032a पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् 032c विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः 033a अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः 033c उपघातैर्यथा भृत्या दूषिता निधनं गताः 034a यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते 034c समयं कृतमिच्छामि वर्तितव्यं यथा मयि 035a मदीया माननीयास्ते श्रोतव्यं च हितं वचः 035c कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा 036a न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित् 036c नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि 037a एक एकेन सङ्गम्य रहो ब्रूयां हितं तव 037c न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते 038a मया सम्मन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया 038c मदीयानां च कुपितो मा त्वं दण्डं निपातयेः 039a एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः 039c प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः 040a तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि 040c प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः 041a मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च 041c दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः 042a अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः 042c अशक्ताः किञ्चिदादातुं द्रव्यं गोमायुयन्त्रिताः 043a व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते 043c धनेन महता चैव बुद्धिरस्य विलोभ्यते 044a न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह 044c अथास्य समयं कृत्वा विनाशाय स्थिताः परे 045a ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम् 045c अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि 046a यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम् 046c तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम् 047a समयोऽयं कृतस्तेन साचिव्यमुपगच्छता 047c नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता 048a भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते 048c मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत 049a कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम् 049c सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना 050a सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम् 050c बभूवामर्षितो राजा वधं चास्याभ्यरोचयत् 051a छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः 051c सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते 052a इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते 052c श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः 053a वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः 053c धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः 053e कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम् 054a मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः 054c आज्ञापयामास तदा गोमायुर्वध्यतामिति 055a शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः 055c मृगराजं हितैर्वाक्यैः सम्बोधयितुमागमत् 056a पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम् 056c कर्मसङ्घर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः 057a नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका 057c शुचेरपि हि युक्तस्य दोष एव निपात्यते 058a लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः 058c मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः 058e अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः 059a बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः 059c कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि 060a शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव 060c नेच्छते दीयमानं च साधु तावद्विमृश्यताम् 061a असत्याः सत्यसङ्काशाः सत्याश्चासत्यदर्शिनः 061c दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम् 062a तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव 062c न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः 063a तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् 063c परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते 064a न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम् 064c श्लाघनीया च वर्या च लोके प्रभवतां क्षमा 065a स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः 065c दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत् 066a दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम् 066c स्वयं सन्दूषितामात्यः क्षिप्रमेव विनश्यति 067a तस्मादथारिसङ्घाताद्गोमायोः कश्चिदागतः 067c धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम् 068a ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः 068c परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः 069a अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित् 069c तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत 070a शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः 070c अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन् 071a तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमम् 071c बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा 072a पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः 072c परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि 073a स्वसन्तुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः 073c स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः 074a परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः 074c हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः 075a सन्तापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः 075c अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः 076a अवमानेन युक्तस्य स्थापितस्य च मे पुनः 076c कथं यास्यसि विश्वासमहमेष्यामि वा पुनः 077a समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च 077c कृतं च समयं भित्त्वा त्वयाहमवमानितः 078a प्रथमं यः समाख्यातः शीलवानिति संसदि 078c न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता 079a एवं चावमतस्येह विश्वासं किं प्रयास्यसि 079c त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति 080a शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः 080c अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम् 081a दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते 081c भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते 082a कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः 082c कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः 083a सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम् 083c समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते 084a अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम् 084c शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् 085a एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत् 085c प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात् 086a अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान् 086c गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ