001 युधिष्ठिर उवाच 001a क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः 001c दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः 002c वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते 003a ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता 003c विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते 004a वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः 004c नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते 005a मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः 005c वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते 006a स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ 006c अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते 007a ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः 007c विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते 008a आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् 008c धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते 009a ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा 009c निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते 010a ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते 010c प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते 011a अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते 011c तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते 012a कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः 012c येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते 013a ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः 013c विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते 014a ये च संशान्तरजसः संशान्ततमसश्च ये 014c सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते 015a येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित् 015c येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते 016a परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः 016c ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते 017a सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते 017c ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते 018a ये न मानितमिच्छन्ति मानयन्ति च ये परम् 018c मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते 019a ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः 019c सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते 020a ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च 020c न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते 021a मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः 021c जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते 022a यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् 022c वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते 023a ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् 023c भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते 024a य एष रक्तपद्माक्षः पीतवासा महाभुजः 024c सुहृद्भ्राता च मित्रं च सम्बन्धी च तवाच्युतः 025a य इमान्सकलाल्ँलोकांश्चर्मवत्परिवेष्टयेत् 025c इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः 026a स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ 026c राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः 027a य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् 027c ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा 028a दुर्गातितरणं ये च पठन्ति श्रावयन्ति च 028c पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते 029a इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ 029c सन्तरेद्येन दुर्गाणि परत्रेह च मानवः