001 युधिष्ठिर उवाच 001a कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत 001c विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ 002a सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः 002c तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः 003a किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् 003c कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् 004 भीष्म उवाच 004a सत्यस्य वचनं साधु न सत्याद्विद्यते परम् 004c यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत 005a भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् 005c यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् 006a तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम् 006c सत्यानृते विनिश्चित्य ततो भवति धर्मवित् 007a अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः 007c सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव 008a किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् 008c सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः 009a तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः 009c दुष्करः प्रतिसङ्ख्यातुं तर्केणात्र व्यवस्यति 010a प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् 010c यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः 011a धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः 011c यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः 012a श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः 012c न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते 013a येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् 013c तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः 014a अकूजनेन चेन्मोक्षो नात्र कूजेत्कथञ्चन 014c अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् 015a श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् 015c यः पापैः सह सम्बन्धान्मुच्यते शपथादिति 016a न च तेभ्यो धनं देयं शक्ये सति कथञ्चन 016c पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् 017a स्वशरीरोपरोधेन वरमादातुमिच्छतः 017c सत्यसम्प्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् 017e अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः 018a प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् 018c अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् 018e परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः 019a प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः 019c यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः 020a शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् 020c सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः 021a धनमित्येव पापानां सर्वेषामिह निश्चयः 021c येऽविषह्या ह्यसम्भोज्या निकृत्या पतनं गताः 022a च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते 022c धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् 023a अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः 023c न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः 024a तथागतं च यो हन्यान्नासौ पापेन लिप्यते 024c स्वकर्मणा हतं हन्ति हत एव स हन्यते 024e तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु 025a यथा काकश्च गृध्रश्च तथैवोपधिजीविनः 025c ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु 026a यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः 026c मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः