001 युधिष्ठिर उवाच 001a महानयं धर्मपथो बहुशाखश्च भारत 001c किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् 002a किं कार्यं सर्वधर्माणां गरीयो भवतो मतम् 002c यथायं पुरुषो धर्ममिह च प्रेत्य चाप्नुयात् 003 भीष्म उवाच 003a मातापित्रोर्गुरूणां च पूजा बहुमता मम 003c अत्र युक्तो नरो लोकान्यशश्च महदश्नुते 004a यदेते ह्यभिजानीयुः कर्म तात सुपूजिताः 004c धर्म्यं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर 005a न तैरनभ्यनुज्ञातो धर्ममन्यं प्रकल्पयेत् 005c यमेतेऽभ्यनुजानीयुः स धर्म इति निश्चयः 006a एत एव त्रयो लोका एत एवाश्रमास्त्रयः 006c एत एव त्रयो वेदा एत एव त्रयोऽग्नयः 007a पिता ह्यग्निर्गार्हपत्यो माताग्निर्दक्षिणः स्मृतः 007c गुरुराहवनीयस्तु साग्नित्रेता गरीयसी 008a त्रिष्वप्रमाद्यन्नेतेषु त्रील्ँलोकानवजेष्यसि 008c पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथापरम् 008e ब्रह्मलोकं गुरोर्वृत्त्या नित्यमेव चरिष्यसि 009a सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत 009c यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् 010a नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत् 010c नित्यं परिचरेच्चैव तद्वै सुकृतमुत्तमम् 010e कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे च जनाधिप 011a सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः 011c अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः 012a नैवायं न परो लोकस्तस्य चैव परन्तप 012c अमानिता नित्यमेव यस्यैते गुरवस्त्रयः 013a न चास्मिन्न परे लोके यशस्तस्य प्रकाशते 013c न चान्यदपि कल्याणं पारत्रं समुदाहृतम् 014a तेभ्य एव तु तत्सर्वं कृत्यया विसृजाम्यहम् 014c तदासीन्मे शतगुणं सहस्रगुणमेव च 014e तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर 015a दशैव तु सदाचार्यः श्रोत्रियानतिरिच्यते 015c दशाचार्यानुपाध्याय उपाध्यायान्पिता दश 016a पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि 016c गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः 016e गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः 017a उभौ हि मातापितरौ जन्मनि व्युपयुज्यतः 017c शरीरमेतौ सृजतः पिता माता च भारत 017e आचार्यशिष्टा या जातिः सा दिव्या साजरामरा 018a अवध्या हि सदा माता पिता चाप्यपकारिणौ 018c न सन्दुष्यति तत्कृत्वा न च ते दूषयन्ति तम् 018e धर्माय यतमानानां विदुर्देवाः सहर्षिभिः 019a य आवृणोत्यवितथेन कर्णावृतं ब्रुवन्नमृतं सम्प्रयच्छन् 019c तं वै मन्ये पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् 020a विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्यासन्नं मनसा कर्मणा वा 020c यथैव ते गुरुभिर्भावनीयास्तथा तेषां गुरवोऽप्यर्चनीयाः 021a तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः 021c गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता 022a येन प्रीताश्च पितरस्तेन प्रीतः पितामहः 022c प्रीणाति मातरं येन पृथिवी तेन पूजिता 023a येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् 023c मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः 023e ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह 024a न केनचन वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् 024c न च माता न च पिता तादृशो यादृशो गुरुः 025a न तेऽवमानमर्हन्ति न च ते दूषयन्ति तम् 025c गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः 026a उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा 026c तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके 027a मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च 027c चतुर्णां वयमेतेषां निष्कृतिं नानुशुश्रुमः 028a एतत्सर्वमतिदेशेन सृष्टं यत्कर्तव्यं पुरुषेणेह लोके 028c एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान्धर्माननुसृत्यैतदुक्तम्