001 युधिष्ठिर उवाच 001a ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप 001c धर्मो वृत्तं च वृत्तिश्च वृत्त्युपायफलानि च 002a राज्ञां वृत्तं च कोशश्च कोशसञ्जननं महत् 002c अमात्यगुणवृद्धिश्च प्रकृतीनां च वर्धनम् 003a षाड्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च 003c दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम् 004a समहीनाधिकानां च यथावल्लक्षणोच्चयः 004c मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता 005a क्षीणसङ्ग्रहवृत्तिश्च यथावत्सम्प्रकीर्तिता 005c लघुनादेशरूपेण ग्रन्थयोगेन भारत 006a विजिगीषोस्तथावृत्तमुक्तं चैव तथैव ते 006c गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर 007a यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत 007c अरीन्हि विजिगीषन्ते सुहृदः प्राप्नुवन्ति च 008a भेदमूलो विनाशो हि गणानामुपलभ्यते 008c मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः 009a एतदिच्छाम्यहं श्रोतुं निखिलेन परन्तप 009c यथा च ते न भिद्येरंस्तच्च मे ब्रूहि पार्थिव 010 भीष्म उवाच 010a गणानां च कुलानां च राज्ञां च भरतर्षभ 010c वैरसन्दीपनावेतौ लोभामर्षौ जनाधिप 011a लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् 011c तौ क्षयव्ययसंयुक्तावन्योन्यजनिताश्रयौ 012a चारमन्त्रबलादानैः सामदानविभेदनैः 012c क्षयव्ययभयोपायैः कर्शयन्तीतरेतरम् 013a तत्र दानेन भिद्यन्ते गणाः सङ्घातवृत्तयः 013c भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात् 014a भेदाद्गणा विनश्यन्ति भिन्नाः सूपजपाः परैः 014c तस्मात्सङ्घातयोगेषु प्रयतेरन्गणाः सदा 015a अर्था ह्येवाधिगम्यन्ते सङ्घातबलपौरुषात् 015c बाह्याश्च मैत्रीं कुर्वन्ति तेषु सङ्घातवृत्तिषु 016a ज्ञानवृद्धान्प्रशंसन्तः शुश्रूषन्तः परस्परम् 016c विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः 017a धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः 017c यथावत्सम्प्रवर्तन्तो विवर्धन्ते गणोत्तमाः 018a पुत्रान्भ्रातॄन्निगृह्णन्तो विनये च सदा रताः 018c विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः 019a चारमन्त्रविधानेषु कोशसन्निचयेषु च 019c नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः 020a प्राज्ञाञ्शूरान्महेष्वासान्कर्मसु स्थिरपौरुषान् 020c मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप 021a द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः 021c कृच्छ्रास्वापत्सु सम्मूढान्गणानुत्तारयन्ति ते 022a क्रोधो भेदो भयो दण्डः कर्शनं निग्रहो वधः 022c नयन्त्यरिवशं सद्यो गणान्भरतसत्तम 023a तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः 023c लोकयात्रा समायत्ता भूयसी तेषु पार्थिव 024a मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शन 024c न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत 025a गणमुख्यैस्तु सम्भूय कार्यं गणहितं मिथः 025c पृथग्गणस्य भिन्नस्य विमतस्य ततोऽन्यथा 025e अर्थाः प्रत्यवसीदन्ति तथानर्था भवन्ति च 026a तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् 026c निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः 027a कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः 027c गोत्रस्य राजन्कुर्वन्ति गणसम्भेदकारिकाम् 028a आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतो भयम् 028c अभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति 029a अकस्मात्क्रोधलोभाद्वा मोहाद्वापि स्वभावजात् 029c अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम् 030a जात्या च सदृशाः सर्वे कुलेन सदृशास्तथा 030c न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः 031a भेदाच्चैव प्रमादाच्च नाम्यन्ते रिपुभिर्गणाः 031c तस्मात्सङ्घातमेवाहुर्गणानां शरणं महत्