001 राजपुत्र उवाच 001a न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् 001c नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम् 002a पुरस्तादेव भगवन्मयैतदपवर्जितम् 002c येन मां नाभिशङ्केत यद्वा कृत्स्नं हितं भवेत् 003a आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः 003c नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते 004 मुनिरुवाच 004a उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे 004c प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शन 005a उभयोरेव वामर्थे यतिष्ये तव तस्य च 005c संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम् 006a त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम् 006c अमात्यं को न कुर्वीत राज्यप्रणयकोविदम् 007a यस्त्वं प्रव्रजितो राज्याद्व्यसनं चोत्तमं गतः 007c आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम् 008a आगन्ता मद्गृहं तात वैदेहः सत्यसङ्गरः 008c यथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम् 009 भीष्म उवाच 009a तत आहूय वैदेहं मुनिर्वचनमब्रवीत् 009c अयं राजकुले जातो विदिताभ्यन्तरो मम 010a आदर्श इव शुद्धात्मा शारदश्चन्द्रमा इव 010c नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः 011a तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मयि 011c न राज्यमनमात्येन शक्यं शास्तुममित्रहन् 012a अमात्यः शूर एव स्याद्बुद्धिसम्पन्न एव च 012c ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य योजनम् 012e धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी 013a कृतात्मा राजपुत्रोऽयं सतां मार्गमनुष्ठितः 013c सुसङ्गृहीतस्त्वेवैष त्वया धर्मपुरोगमः 013e संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान् 014a यद्ययं प्रतियुध्येत्त्वां स्वकर्म क्षत्रियस्य तत् 014c जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे 015a त्वं चापि प्रतियुध्येथा विजिगीषुव्रते स्थितः 015c अयुद्ध्वैव नियोगान्मे वशे वैदेह ते स्थितः 016a स त्वं धर्ममवेक्षस्व त्यक्त्वाधर्ममसाम्प्रतम् 016c न हि कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि 017a नैव नित्यं जयस्तात नैव नित्यं पराजयः 017c तस्माद्भोजयितव्यश्च भोक्तव्यश्च परो जनः 018a आत्मन्येव हि सन्दृश्यावुभौ जयपराजयौ 018c निःशेषकारिणां तात निःशेषकरणाद्भयम् 019a इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् 019c अभिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च 020a यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्बहुश्रुतः 020c श्रेयस्कामो यथा ब्रूयादुभयोर्यत्क्षमं भवेत् 021a तथा वचनमुक्तोऽस्मि करिष्यामि च तत्तथा 021c एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा 022a ततः कौसल्यमाहूय वैदेहो वाक्यमब्रवीत् 022c धर्मतो नीतितश्चैव बलेन च जितो मया 023a सोऽहं त्वया त्वात्मगुणैर्जितः पार्थिवसत्तम 023c आत्मानमनवज्ञाय जितवद्वर्ततां भवान् 024a नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम् 024c नावमन्ये जयामीति जितवद्वर्ततां भवान् 025a यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् 025c ततः सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान् 026a वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा 026c पाद्यार्घ्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत् 027a ददौ दुहितरं चास्मै रत्नानि विविधानि च 027c एष राज्ञां परो धर्मः सह्यौ जयपराजयौ