001 मुनिरुवाच 001a अथ चेत्पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि 001c ब्रवीमि हन्त ते नीतिं राज्यस्य प्रतिपत्तये 002a तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि 002c शृणु सर्वमशेषेण यत्त्वां वक्ष्यामि तत्त्वतः 003a आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि 003c राज्यं राज्यस्य मन्त्रं वा महतीं वा पुनः श्रियम् 003e यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते 004 राजपुत्र उवाच 004a ब्रवीतु भगवान्नीतिमुपपन्नोऽस्म्यहं प्रभो 004c अमोघमिदमद्यास्तु त्वया सह समागतम् 005 मुनिरुवाच 005a हित्वा स्तम्भं च मानं च क्रोधहर्षौ भयं तथा 005c प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः 006a तमुत्तमेन शौचेन कर्मणा चाभिराधय 006c दातुमर्हति ते वृत्तिं वैदेहः सत्यसङ्गरः 007a प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि 007c ततः सहायान्सोत्साहाल्ँलप्स्यसेऽव्यसनाञ्शुचीन् 008a वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः 008c अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः 009a तेनैव त्वं धृतिमता श्रीमता चाभिसत्कृतः 009c प्रमाणं सर्वभूतेषु गत्वा प्रग्रहणं महत् 010a ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् 010c अन्तरैर्भेदयित्वारीन्बिल्वं बिल्वेन शातय 010e परैर्वा संविदं कृत्वा बलमप्यस्य घातय 011a अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च 011c शय्यासनानि यानानि महार्हाणि गृहाणि च 012a पक्षिणो मृगजातानि रसा गन्धाः फलानि च 012c तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः 013a यद्येव प्रतिषेद्धव्यो यद्युपेक्षणमर्हति 013c न जातु विवृतः कार्यः शत्रुर्विनयमिच्छता 014a वसस्व परमामित्रविषये प्राज्ञसम्मते 014c भजस्व श्वेतकाकीयैर्मित्राधममनर्थकैः 015a आरम्भांश्चास्य महतो दुष्करांस्त्वं प्रयोजय 015c नदीबन्धविरोधांश्च बलवद्भिर्विरुध्यताम् 016a उद्यानानि महार्हाणि शयनान्यासनानि च 016c प्रतिभोगसुखेनैव कोशमस्य विरेचय 017a यज्ञदानप्रशंसास्मै ब्राह्मणेष्वनुवर्ण्यताम् 017c ते त्वत्प्रियं करिष्यन्ति तं चेष्यन्ति वृका इव 018a असंशयं पुण्यशीलः प्राप्नोति परमां गतिम् 018c त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति पार्थिवः 018e कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति 019a उभयत्र प्रसक्तस्य धर्मे चाधर्म एव च 019c बलार्थमूलं व्युच्छिद्येत्तेन नन्दन्ति शत्रवः 020a निन्द्यास्य मानुषं कर्म दैवमस्योपवर्णय 020c असंशयं दैवपरः क्षिप्रमेव विनश्यति 021a याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् 021c ततो गच्छत्वसिद्धार्थः पीड्यमानो महाजनम् 022a त्यागधर्मविदं मुण्डं कञ्चिदस्योपवर्णय 022c अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् 023a सिद्धेनौषधयोगेन सर्वशत्रुविनाशिना 023c नागानश्वान्मनुष्यांश्च कृतकैरुपघातय 024a एते चान्ये च बहवो दम्भयोगाः सुनिश्चिताः 024c शक्या विषहता कर्तुं न क्लीबेन नृपात्मज