001 युधिष्ठिर उवाच 001a धार्मिकोऽर्थानसम्प्राप्य राजामात्यैः प्रबाधितः 001c च्युतः कोशाच्च दण्डाच्च सुखमिच्छन्कथं चरेत् 002 भीष्म उवाच 002a अत्रायं क्षेमदर्शीयमितिहासोऽनुगीयते 002c तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर 003a क्षेमदर्शं नृपसुतं यत्र क्षीणबलं पुरा 003c मुनिः कालकवृक्षीय आजगामेति नः श्रुतम् 003e तं पप्रच्छोपसङ्गृह्य कृच्छ्रामापदमास्थितः 004a अर्थेषु भागी पुरुष ईहमानः पुनः पुनः 004c अलब्ध्वा मद्विधो राज्यं ब्रह्मन्किं कर्तुमर्हति 005a अन्यत्र मरणात्स्तेयादन्यत्र परसंश्रयात् 005c क्षुद्रादन्यत्र चाचारात्तन्ममाचक्ष्व सत्तम 006a व्याधिना चाभिपन्नस्य मानसेनेतरेण वा 006c बहुश्रुतः कृतप्रज्ञस्त्वद्विधः शरणं भवेत् 007a निर्विद्य हि नरः कामान्नियम्य सुखमेधते 007c त्यक्त्वा प्रीतिं च शोकं च लब्ध्वाप्रीतिमयं वसु 008a सुखमर्थाश्रयं येषामनुशोचामि तानहम् 008c मम ह्यर्थाः सुबहवो नष्टाः स्वप्न इवागताः 009a दुष्करं बत कुर्वन्ति महतोऽर्थांस्त्यजन्ति ये 009c वयं त्वेनान्परित्यक्तुमसतोऽपि न शक्नुमः 010a इमामवस्थां सम्प्राप्तं दीनमार्तं श्रियश्च्युतम् 010c यदन्यत्सुखमस्तीह तद्ब्रह्मन्ननुशाधि माम् 011a कौसल्येनैवमुक्तस्तु राजपुत्रेण धीमता 011c मुनिः कालकवृक्षीयः प्रत्युवाच महाद्युतिः 012a पुरस्तादेव ते बुद्धिरियं कार्या विजानतः 012c अनित्यं सर्वमेवेदमहं च मम चास्ति यत् 013a यत्किञ्चिन्मन्यसेऽस्तीति सर्वं नास्तीति विद्धि तत् 013c एवं न व्यथते प्राज्ञः कृच्छ्रामप्यापदं गतः 014a यद्धि भूतं भविष्यच्च ध्रुवं तन्न भविष्यति 014c एवं विदितवेद्यस्त्वमधर्मेभ्यः प्रमोक्ष्यसे 015a यच्च पूर्वे समाहारे यच्च पूर्वतरे परे 015c सर्वं तन्नास्ति तच्चैव तज्ज्ञात्वा कोऽनुसञ्ज्वरेत् 016a भूत्वा च न भवत्येतदभूत्वा च भवत्यपि 016c शोके न ह्यस्ति सामर्थ्यं शोकं कुर्यात्कथं नरः 017a क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः 017c न त्वं पश्यसि तानद्य न त्वा पश्यन्ति तेऽपि च 018a आत्मनोऽध्रुवतां पश्यंस्तांस्त्वं किमनुशोचसि 018c बुद्ध्या चैवानुबुध्यस्व ध्रुवं हि न भविष्यसि 019a अहं च त्वं च नृपते शत्रवः सुहृदश्च ते 019c अवश्यं न भविष्यामः सर्वं च न भविष्यति 020a ये तु विंशतिवर्षा वै त्रिंशद्वर्षाश्च मानवाः 020c अर्वागेव हि ते सर्वे मरिष्यन्ति शरच्छतात् 021a अपि चेन्महतो वित्ताद्विप्रमुच्येत पूरुषः 021c नैतन्ममेति तन्मत्वा कुर्वीत प्रियमात्मनः 022a अनागतं यन्न ममेति विद्यादतिक्रान्तं यन्न ममेति विद्यात् 022c दिष्टं बलीय इति मन्यमानास्ते पण्डितास्तत्सतां स्थानमाहुः 023a अनाढ्याश्चापि जीवन्ति राज्यं चाप्यनुशासते 023c बुद्धिपौरुषसम्पन्नास्त्वया तुल्याधिका जनाः 024a न च त्वमिव शोचन्ति तस्मात्त्वमपि मा शुचः 024c किं नु त्वं तैर्न वै श्रेयांस्तुल्यो वा बुद्धिपौरुषैः 025 राजपुत्र उवाच 025a यादृच्छिकं ममासीत्तद्राज्यमित्येव चिन्तये 025c ह्रियते सर्वमेवेदं कालेन महता द्विज 026a तस्यैवं ह्रियमाणस्य स्रोतसेव तपोधन 026c फलमेतत्प्रपश्यामि यथालब्धेन वर्तये 027 मुनिरुवाच 027a अनागतमतीतं च यथा तथ्यविनिश्चयात् 027c नानुशोचसि कौसल्य सर्वार्थेषु तथा भव 028a अवाप्यान्कामयस्वार्थान्नानवाप्यान्कदाचन 028c प्रत्युत्पन्नाननुभवन्मा शुचस्त्वमनागतान् 029a यथा लब्धोपपन्नार्थस्तथा कौसल्य रंस्यसे 029c कच्चिच्छुद्धस्वभावेन श्रिया हीनो न शोचसि 030a पुरस्ताद्भूतपूर्वत्वाद्धीनभाग्यो हि दुर्मतिः 030c धातारं गर्हते नित्यं लब्धार्थांश्च न मृष्यते 031a अनर्हानपि चैवान्यान्मन्यते श्रीमतो जनान् 031c एतस्मात्कारणादेतद्दुःखं भूयोऽनुवर्तते 032a ईर्ष्यातिच्छेदसम्पन्ना राजन्पुरुषमानिनः 032c कच्चित्त्वं न तथा प्राज्ञ मत्सरी कोसलाधिप 033a सहस्व श्रियमन्येषां यद्यपि त्वयि नास्ति सा 033c अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः 033e अभिविष्यन्दते श्रीर्हि सत्यपि द्विषतो जनात् 034a श्रियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः 034c त्यागधर्मविदो वीराः स्वयमेव त्यजन्त्युत 035a बहु सङ्कसुकं दृष्ट्वा विवित्सासाधनेन च 035c तथान्ये सन्त्यजन्त्येनं मत्वा परमदुर्लभम् 036a त्वं पुनः प्राज्ञरूपः सन्कृपणं परितप्यसे 036c अकाम्यान्कामयानोऽर्थान्पराचीनानुपद्रुतान् 037a तां बुद्धिमुपजिज्ञासुस्त्वमेवैनान्परित्यज 037c अनर्थांश्चार्थरूपेण अर्थांश्चानर्थरूपतः 038a अर्थायैव हि केषाञ्चिद्धननाशो भवत्युत 038c अनन्त्यं तं सुखं मत्वा श्रियमन्यः परीक्षते 039a रममाणः श्रिया कश्चिन्नान्यच्छ्रेयोऽभिमन्यते 039c तथा तस्येहमानस्य समारम्भो विनश्यति 040a कृच्छ्राल्लब्धमभिप्रेतं यदा कौसल्य नश्यति 040c तदा निर्विद्यते सोऽर्थात्परिभग्नक्रमो नरः 041a धर्ममेकेऽभिपद्यन्ते कल्याणाभिजना नराः 041c परत्र सुखमिच्छन्तो निर्विद्येयुश्च लौकिकात् 042a जीवितं सन्त्यजन्त्येके धनलोभपरा नराः 042c न जीवितार्थं मन्यन्ते पुरुषा हि धनादृते 043a पश्य तेषां कृपणतां पश्य तेषामबुद्धिताम् 043c अध्रुवे जीविते मोहादर्थतृष्णामुपाश्रिताः 044a सञ्चये च विनाशान्ते मरणान्ते च जीविते 044c संयोगे विप्रयोगान्ते को नु विप्रणयेन्मनः 045a धनं वा पुरुषं राजन्पुरुषो वा पुनर्धनम् 045c अवश्यं प्रजहात्येतत्तद्विद्वान्कोऽनुसञ्ज्वरेत् 046a अन्येषामपि नश्यन्ति सुहृदश्च धनानि च 046c पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः 046e नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम् 047a प्रतिषिद्धानवाप्येषु दुर्लभेष्वहितेषु च 047c प्रतिकृष्टेषु भावेषु व्यतिकृष्टेष्वसम्भवे 047e प्रज्ञानतृप्तो विक्रान्तस्त्वद्विधो नानुशोचति 048a अल्पमिच्छन्नचपलो मृदुर्दान्तः सुसंशितः 048c ब्रह्मचर्योपपन्नश्च त्वद्विधो नैव मुह्यति 049a न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि 049c नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषोचिताम् 050a अपि मूलफलाजीवो रमस्वैको महावने 050c वाग्यतः सङ्गृहीतात्मा सर्वभूतदयान्वितः 051a सदृशं पण्डितस्यैतदीषादन्तेन दन्तिना 051c यदेको रमतेऽरण्ये यच्चाप्यल्पेन तुष्यति 052a महाह्रदः सङ्क्षुभित आत्मनैव प्रसीदति 052c एतदेवङ्गतस्याहं सुखं पश्यामि केवलम् 053a असम्भवे श्रियो राजन्हीनस्य सचिवादिभिः 053c दैवे प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्