001 युधिष्ठिर उवाच 001a कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव 001c अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर 003a बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः 003c उपसङ्गम्य पप्रच्छ वासवः परवीरहा 004a अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः 004c असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः 005a सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत् 005c किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी 006a ततो धर्मार्थकामानां कुशलः प्रतिभानवान् 006c राजधर्मविधानज्ञः प्रत्युवाच पुरन्दरम् 007a न जातु कलहेनेच्छेन्नियन्तुमपकारिणः 007c बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा 007e न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता 008a क्रोधं बलममर्षं च नियम्यात्मजमात्मनि 008c अमित्रमुपसेवेत विश्वस्तवदविश्वसन् 009a प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत् 009c विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् 010a यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः 010c तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः 010e वशं चोपनयेच्छत्रून्निहन्याच्च पुरन्दर 011a न नित्यं परिभूयारीन्सुखं स्वपिति वासव 011c जागर्त्येव च दुष्टात्मा सङ्करेऽग्निरिवोत्थितः 012a न सन्निपातः कर्तव्यः सामान्ये विजये सति 012c विश्वास्यैवोपसन्न्यास्यो वशे कृत्वा रिपुः प्रभो 013a सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः 013c उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः 014a अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे 014c दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः 015a आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत् 015c बलानि दूषयेदस्य जानंश्चैव प्रमाणतः 016a भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा 016c न त्वेव चेलसंसर्गं रचयेदरिभिः सह 017a दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् 017c कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः 018a न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः 018c न यः शल्यं घट्टयति नवं च कुरुते व्रणम् 019a प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः 019c हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति 020a यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् 020c दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा 021a और्जस्थ्यं विजयेदेवं सङ्गृह्णन्साधुसम्मतान् 021c कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत् 022a विहाय कामं क्रोधं च तथाहङ्कारमेव च 022c युक्तो विवरमन्विच्छेदहितानां पुरन्दर 023a मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम 023c मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् 024a निहत्यैतानि चत्वारि मायां प्रतिविधाय च 024c ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् 025a यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत् 025c यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि 026a अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् 026c ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् 027a भेदं च प्रथमं युञ्ज्यात्तूष्णीन्दण्डं तथैव च 027c काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा 028a प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः 028c युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः 029a प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् 029c अमित्रमुपसेवेत न तु जातु विशङ्कयेत् 030a स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् 030c न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः 031a न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम 031c यथा विविधवृत्तानामैश्वर्यममराधिप 032a तथा विविधशीलानामपि सम्भव उच्यते 032c यतेत योगमास्थाय मित्रामित्रानवारयन् 033a मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः 033c मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव 034a यथा वप्रे वेगवति सर्वतःसम्प्लुतोदके 034c नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः 035a न बहूनभियुञ्जीत यौगपद्येन शात्रवान् 035c साम्ना दानेन भेदेन दण्डेन च पुरन्दर 036a एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत् 036c न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः 037a यदा स्यान्महती सेना हयनागरथाकुला 037c पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी 038a यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः 038c तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् 039a न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा 039c न सस्यघातो न च सङ्करक्रिया न चापि भूयः प्रकृतेर्विचारणा 040a मायाविभेदानुपसर्जनानि पापं तथैव स्पशसम्प्रयोगात् 040c आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तः 041a पुराणि चैषामनुसृत्य भूमिपाः पुरेषु भोगान्निखिलानिहाजयन् 041c पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन 042a प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानवधाय च स्वान् 042c दुष्टाः स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति 043a तथैव चान्यै रतिशास्त्रवेदिभिः स्वलङ्कृतैः शास्त्रविधानदृष्टिभिः 043c सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यानुपधारयस्व 044 इन्द्र उवाच 044a कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम 044c कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे 045 बृहस्पतिरुवाच 045a परोक्षमगुणानाह सद्गुणानभ्यसूयति 045c परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः 046a तूष्णीम्भावेऽपि हि ज्ञानं न चेद्भवति कारणम् 046c विश्वासमोष्ठसन्दंशं शिरसश्च प्रकम्पनम् 047a करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते 047c अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते 048a पृथगेत्य समश्नाति नेदमद्य यथाविधि 048c आसने शयने याने भावा लक्ष्या विशेषतः 049a आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् 049c विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् 050a एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप 050c पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः 051a इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम 051c निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर 052 भीष्म उवाच 052a स तद्वचः शत्रुनिबर्हणे रतस्तथा चकारावितथं बृहस्पतेः 052c चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरन्दरः