001 युधिष्ठिर उवाच 001a जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ 001c पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् 002 भीष्म उवाच 002a जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ 002c पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः 003a दैवं पूर्वं विकुरुते मानुषे कालचोदिते 003c तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा 004a प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः 004c मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि 005a उदीर्णमनसो योधा वाहनानि च भारत 005c यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् 006a अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च 006c अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः 007a गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः 007c आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा 008a प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः 008c पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद्भाविनो रूपमाहुः 009a गम्भीरशब्दाश्च महास्वनाश्च शङ्खाश्च भेर्यश्च नदन्ति यत्र 009c युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः 010a इष्टा मृगाः पृष्ठतो वामतश्च सम्प्रस्थितानां च गमिष्यतां च 010c जिघांसतां दक्षिणाः सिद्धिमाहुर्ये त्वग्रतस्ते प्रतिषेधयन्ति 011a मङ्गल्यशब्दाः शकुना वदन्ति हंसाः क्रौञ्चाः शतपत्राश्च चाषाः 011c हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः 012a शस्त्रैः पत्रैः कवचैः केतुभिश्च सुभानुभिर्मुखवर्णैश्च यूनाम् 012c भ्राजिष्मती दुष्प्रतिप्रेक्षणीया येषां चमूस्तेऽभिभवन्ति शत्रून् 013a शुश्रूषवश्चानभिमानिनश्च परस्परं सौहृदमास्थिताश्च 013c येषां योधाः शौचमनुष्ठिताश्च जयस्यैतद्भाविनो रूपमाहुः 014a शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः 014c धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् 015a इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः 015c पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति 016a सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर 016c साम्नैवावर्तने पूर्वं प्रयतेथास्ततो युधि 017a जघन्य एष विजयो यद्युद्धं नाम भारत 017c यादृच्छिको युधि जयो दैवो वेति विचारणम् 018a अपामिव महावेगस्त्रस्ता मृगगणा इव 018c दुर्निवार्यतमा चैव प्रभग्ना महती चमूः 019a भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम् 019c उदारसारा महती रुरुसङ्घोपमा चमूः 020a परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः 020c अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् 021a अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः 021c कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् 022a सन्निपातो न गन्तव्यः शक्ये सति कथञ्चन 022c सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते 023a संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते 023c वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति 024a अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ 024c तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च 025a विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः 025c शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् 026a तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः 026c सम्पीड्यमाना हि परे योगमायान्ति सर्वशः 027a अन्तराणां च भेदार्थं चारानभ्यवचारयेत् 027c यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते 028a न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा 028c यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् 029a क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा 029c क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम् 030a विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते 030c महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः 031a मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः 031c असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः 032a नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम् 032c अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् 033a द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर 033c मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् 034a प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत 034c प्रहृत्य च कृपायेत शोचन्निव रुदन्निव 035a न मे प्रियं यत्स हतः सम्प्राहैवं पुरो वचः 035c न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः 036a अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति 036c सुदुर्लभाः सुपुरुषाः सङ्ग्रामेष्वपलायिनः 037a कृतं ममाप्रियं तेन येनायं निहतो मृधे 037c इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः 038a हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः 038c क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसङ्ग्रहम् 039a एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन् 039c प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः 040a विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत 040c विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः 041a तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया 041c सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति