001 युधिष्ठिर उवाच 001a किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत 001c किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृप 002 भीष्म उवाच 002a यथाचरितमेवात्र शस्त्रपत्रं विधीयते 002c आचारादेव पुरुषस्तथा कर्मसु वर्तते 003a गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः 003c आभीरवः सुबलिनस्तद्बलं सर्वपारगम् 004a सर्वशस्त्रेषु कुशलाः सत्त्ववन्तो ह्युशीनराः 004c प्राच्या मातङ्गयुद्धेषु कुशलाः शठयोधिनः 005a तथा यवनकाम्बोजा मथुरामभितश्च ये 005c एते नियुद्धकुशला दाक्षिणात्यासिचर्मिणः 006a सर्वत्र शूरा जायन्ते महासत्त्वा महाबलाः 006c प्राय एष समुद्दिष्टो लक्षणानि तु मे शृणु 007a सिंहशार्दूलवाङ्नेत्राः सिंहशार्दूलगामिनः 007c पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः 008a मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथापरे 008c प्रवादिनः सुचण्डाश्च क्रोधिनः किन्नरीस्वनाः 009a मेघस्वनाः क्रुद्धमुखाः केचित्करभनिस्वनाः 009c जिह्मनासानुजङ्घाश्च दूरगा दूरपातिनः 010a बिडालकुब्जास्तनवस्तनुकेशास्तनुत्वचः 010c शूराश्चपलचित्ताश्च ते भवन्ति दुरासदाः 011a गोधानिमीलिताः केचिन्मृदुप्रकृतयोऽपि च 011c तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः 012a सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः 012c प्रवादितेन नृत्यन्ति हृष्यन्ति कलहेषु च 013a गम्भीराक्षा निःसृताक्षाः पिङ्गला भ्रुकुटीमुखाः 013c नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः 014a जिह्माक्षाः प्रललाटाश्च निर्मांसहनवोऽपि च 014c वक्रबाह्वङ्गुलीसक्ताः कृशा धमनिसन्तताः 015a प्रविशन्त्यतिवेगेन सम्परायेऽभ्युपस्थिते 015c वारणा इव सम्मत्तास्ते भवन्ति दुरासदाः 016a दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः 016c उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः 017a उद्वृत्ताश्चैव सुग्रीवा विनता विहगा इव 017c पिण्डशीर्षाहिवक्त्राश्च वृषदंशमुखा इव 018a उग्रस्वना मन्युमन्तो युद्धेष्वारावसारिणः 018c अधर्मज्ञावलिप्ताश्च घोरा रौद्रप्रदर्शिनः 019a त्यक्तात्मानः सर्व एते अन्त्यजा ह्यनिवर्तिनः 019c पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते 020a अधार्मिका भिन्नवृत्ताः साध्वेवैषां पराभवः 020c एवमेव प्रकुप्यन्ति राज्ञोऽप्येते ह्यभीक्ष्णशः