001 युधिष्ठिर उवाच 001a यथा जयार्थिनः सेनां नयन्ति भरतर्षभ 001c ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे 002c साध्वाचारतया केचित्तथैवौपयिका अपि 002e उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः 003a निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः 003c तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् 003e कार्याणां सम्प्रसिद्ध्यर्थं तानुपायान्निबोध मे 004a उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत 004c जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् 005a अमित्रा एव राजानं भेदेनोपचरन्त्युत 005c तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते 006a गजानां पार्श्वचर्माणि गोवृषाजगराणि च 006c शल्यकङ्कटलोहानि तनुत्राणि मतानि च 007a शितपीतानि शस्त्राणि सन्नाहाः पीतलोहिताः 007c नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते 008a ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः 008c फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः 008e अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः 009a चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते 009c पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा 010a नैवातिशीतो नात्युष्णः कालो भवति भारत 010c तस्मात्तदा योजयेत परेषां व्यसनेषु वा 010e एतेषु योगाः सेनायाः प्रशस्ताः परबाधने 011a जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते 011c चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः 012a नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव 012c तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः 013a आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते 013c परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् 014a आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् 014c बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः 015a उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् 015c अथ शत्रुप्रतीघातमापदर्थं परायणम् 016a सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव 016c अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् 017a यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः 017c पूर्वं पूर्वं ज्याय एषां सन्निपाते युधिष्ठिर 018a अकर्दमामनुदकाममर्यादामलोष्टकाम् 018c अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः 019a समा निरुदकाकाशा रथभूमिः प्रशस्यते 019c नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् 020a बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता 020c पदातीनां क्षमा भूमिः पर्वतोपवनानि च 021a पदातिबहुला सेना दृढा भवति भारत 021c रथाश्वबहुला सेना सुदिनेषु प्रशस्यते 022a पदातिनागबहुला प्रावृट्काले प्रशस्यते 022c गुणानेतान्प्रसङ्ख्याय देशकालौ प्रयोजयेत् 023a एवं सञ्चिन्त्य यो याति तिथिनक्षत्रपूजितः 023c विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् 024a प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् 024c मोक्षे प्रयाणे चलने पानभोजनकालयोः 025a अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् 025c सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् 025e बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः 026a पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः 026c परिचर्यावरोद्धारो ये च केचन वल्गिनः 027a अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च 027c समानाशनपानास्ते कार्या द्विगुणवेतनाः 028a दशाधिपतयः कार्याः शताधिपतयस्तथा 028c तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् 029a यथामुख्यं सन्निपात्य वक्तव्याः स्म शपामहे 029c यथा जयार्थं सङ्ग्रामे न जह्याम परस्परम् 030a इहैव ते निवर्तन्तां ये नः केचन भीरवः 030c न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति 031a आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे 031c द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने 032a अमनोज्ञासुखा वाचः पुरुषस्य पलायतः 032c प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च 033a हित्वा पलायमानस्य सहायान्प्राणसंशये 033c अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा 034a मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः 034c राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह 035a अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् 035c जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च 036a यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः 036c तदसह्यतरं दुःखमहं मन्ये वधादपि 037a श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च 037c सा भीरूणां परान्याति शूरस्तामधिगच्छति 038a ते वयं स्वर्गमिच्छन्तः सङ्ग्रामे त्यक्तजीविताः 038c जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् 039a एवं संशप्तशपथाः समभित्यक्तजीविताः 039c अमित्रवाहिनीं वीराः सम्प्रगाहन्त्यभीरवः 040a अग्रतः पुरुषानीकमसिचर्मवतां भवेत् 040c पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा 041a परेषां प्रतिघातार्थं पदातीनां च गूहनम् 041c अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः 042a ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः 042c ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः 043a अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः 043c स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः 044a संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् 044c सूचीमुखमनीकं स्यादल्पानां बहुभिः सह 045a सम्प्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् 045c प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति 046a आगतं नो मित्रबलं प्रहरध्वमभीतवत् 046c शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् 047a क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् 047c भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान्