001 भीष्म उवाच 001a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 001c प्रतर्दनो मैथिलश्च सङ्ग्रामं यत्र चक्रतुः 002a यज्ञोपवीती सङ्ग्रामे जनको मैथिलो यथा 002c योधानुद्धर्षयामास तन्निबोध युधिष्ठिर 003a जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् 003c योधान्स्वान्दर्शयामास स्वर्गं नरकमेव च 004a अभीतानामिमे लोका भास्वन्तो हन्त पश्यत 004c पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः 005a इमे पलायमानानां नरकाः प्रत्युपस्थिताः 005c अकीर्तिः शाश्वती चैव पतितव्यमनन्तरम् 006a तान्दृष्ट्वारीन्विजयतो भूत्वा सन्त्यागबुद्धयः 006c नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः 007a त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् 007c इत्युक्तास्ते नृपतिना योधाः परपुरञ्जय 008a व्यजयन्त रणे शत्रून्हर्षयन्तो जनेश्वरम् 008c तस्मादात्मवता नित्यं स्थातव्यं रणमूर्धनि 009a गजानां रथिनो मध्ये रथानामनु सादिनः 009c सादिनामन्तरा स्थाप्यं पादातमिह दंशितम् 010a य एवं व्यूहते राजा स नित्यं जयते द्विषः 010c तस्मादेवं विधातव्यं नित्यमेव युधिष्ठिर 011a सर्वे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः 011c क्षोभयेयुरनीकानि सागरं मकरा इव 012a हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् 012c जितां च भूमिं रक्षेत भग्नान्नात्यनुसारयेत् 013a पुनरावर्तमानानां निराशानां च जीविते 013c न वेगः सुसहो राजंस्तस्मान्नात्यनुसारयेत् 014a न हि प्रहर्तुमिच्छन्ति शूराः प्राद्रवतां भयात् 014c तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् 015a चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि 015c अपाणयः पाणिमतामन्नं शूरस्य कातराः 016a समानपृष्ठोदरपाणिपादाः पश्चाच्छूरं भीरवोऽनुव्रजन्ति 016c अतो भयार्ताः प्रणिपत्य भूयः कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् 017a शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सदा 017c तस्मात्सर्वास्ववस्थासु शूरः सम्मानमर्हति 018a न हि शौर्यात्परं किञ्चित्त्रिषु लोकेषु विद्यते 018c शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्