001 युधिष्ठिर उवाच 001a के लोका युध्यमानानां शूराणामनिवर्तिनाम् 001c भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह 002 भीष्म उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर 003a अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम् 003c ददर्श सुरलोकस्थं शक्रेण सचिवं सह 004a सर्वतेजोमयं दिव्यं विमानवरमास्थितम् 004c उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम् 005a स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः 005c ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम् 006a सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि 006c चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया 007a ब्रह्मचर्येण घोरेण आचार्यकुलसेवया 007c वेदानधीत्य धर्मेण राजशास्त्रं च केवलम् 008a अतिथीनन्नपानेन पितॄंश्च स्वधया तथा 008c ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः 009a क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि 009c उदीक्षमाणः पृतनां जयामि युधि वासव 010a देवराज सुदेवोऽयं मम सेनापतिः पुरा 010c आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम् 011a नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः 011c तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम् 012 इन्द्र उवाच 012a एतस्य विततस्तात सुदेवस्य बभूव ह 012c सङ्ग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः 013a सन्नद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम् 013c युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः 014 अम्बरीष उवाच 014a कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा 014c ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो 015 इन्द्र उवाच 015a ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा 015c हवींषि परमांसानि रुधिरं त्वाज्यमेव च 016a सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः 016c आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे 017a प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वधाः 017c ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः 018a चापवेगायतस्तीक्ष्णः परकायावदारणः 018c ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान् 019a द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः 019c हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे 020a ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः 020c शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु 021a आवेगाद्यत्तु रुधिरं सङ्ग्रामे स्यन्दते भुवि 021c सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक् 022a छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे 022c सामानि सामगास्तस्य गायन्ति यमसादने 023a हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् 023c कुञ्जराणां हयानां च वर्मिणां च समुच्चयः 023e अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते 024a उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः 024c स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते 025a इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः 025c व्याघुष्टतलनादेन वषट्कारेण पार्थिव 025e उद्गाता तत्र सङ्ग्रामे त्रिसामा दुन्दुभिः स्मृतः 026a ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत् 026c आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः 027a भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे 027c भयान्न च निवर्तेत तस्य लोका यथा मम 028a नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः 028c यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम 029a यस्तु नावेक्षते कञ्चित्सहायं विजये स्थितः 029c विगाह्य वाहिनीमध्यं तस्य लोका यथा मम 030a यस्य तोमरसङ्घाटा भेरीमण्डूककच्छपा 030c वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा 031a असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला 031c अश्वनागरथैश्चैव सम्भिन्नैः कृतसङ्क्रमा 032a पताकाध्वजवानीरा हतवाहनवाहिनी 032c शोणितोदा सुसम्पूर्णा दुस्तरा पारगैर्नरैः 033a हतनागमहानक्रा परलोकवहाशिवा 033c ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा 034a पुरुषादानुचरिता भीरूणां कश्मलावहा 034c नदी योधमहायज्ञे तदस्यावभृथं स्मृतम् 035a वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते 035c अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम 036a पत्नीशाला कृता यस्य परेषां वाहिनीमुखम् 036c हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः 037a सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम् 037c शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः 038a यदा तूभयतो व्यूहो भवत्याकाशमग्रतः 038c सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः 039a यस्तु योधः परावृत्तः सन्त्रस्तो हन्यते परैः 039c अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः 040a यस्य शोणितवेगेन नदी स्यात्समभिप्लुता 040c केशमांसास्थिसङ्कीर्णा स गच्छेत्परमां गतिम् 041a यस्तु सेनापतिं हत्वा तद्यानमधिरोहति 041c स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः 042a नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः 042c जीवग्राहं निगृह्णाति तस्य लोका यथा मम 043a आहवे निहतं शूरं न शोचेत कदाचन 043c अशोच्यो हि हतः शूरः स्वर्गलोके महीयते 044a न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम् 044c हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे 045a वराप्सरःसहस्राणि शूरमायोधने हतम् 045c त्वरमाणा हि धावन्ति मम भर्ता भवेदिति 046a एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः 046c चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते 047a वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः 047c तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत् 048a अहं वृत्रं बलं पाकं शतमायं विरोचनम् 048c दुरावार्यं च नमुचिं नैकमायं च शम्बरम् 049a विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः 049c प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम् 050 भीष्म उवाच 050a इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च 050c योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान्