001 भीष्म उवाच 001a नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः 001c अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः 002a अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च 002c सादयत्येष राजानं महीं च भरतर्षभ 003a विशीर्णकवचं चैव तवास्मीति च वादिनम् 003c कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् 004a बलेनावजितो यश्च न तं युध्येत भूमिपः 004c संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् 005a नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता 005c एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् 006a न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः 006c युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् 007a राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते 007c नान्यो राजानमभ्यसेदराजन्यः कथञ्चन 008a अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा 008c शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् 008e मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् 009a अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः 009c अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि 010a या तु धर्मविलोपेन मर्यादाभेदनेन च 010c तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः 010e धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् 011a सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत् 011c सान्त्वेन भोगदानेन स राज्ञां परमो नयः 012a भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः 012c अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः 013a अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि 013c सन्दुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः 014a नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन 014c जीवितं ह्यप्यतिच्छिन्नः सन्त्यजत्येकदा नरः 015a अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः 015c शुद्धं जीवितमेवापि तादृशो बहु मन्यते 016a यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः 016c सन्तुष्टभृत्यसचिवो दृढमूलः स पार्थिवः 017a ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसम्मताः 017c पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते 018a एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः 018c अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः 019a भूमिवर्जं पुरं राजा जित्वा राजानमाहवे 019c अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः 020a अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च 020c आजहार दिवोदासस्ततो विप्रकृतोऽभवत् 021a सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ 021c अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत 022a उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर 022c आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते 023a सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः 023c न मायया न दम्भेन य इच्छेद्भूतिमात्मनः