001 युधिष्ठिर उवाच 001a अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि 001c कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे 002 भीष्म उवाच 002a ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः 002c ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा 003a मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ 003c ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् 004a ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथञ्चन 004c सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप 005a अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः 005c त्राणायाप्यसमर्थं तं मन्यमानमतीव च 006 युधिष्ठिर उवाच 006a अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् 006c कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह 007 भीष्म उवाच 007a नासन्नद्धो नाकवचो योद्धव्यः क्षत्रियो रणे 007c एक एकेन वाच्यश्च विसृजस्व क्षिपामि च 008a स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत् 008c स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् 009a स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत् 009c अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् 010a नाश्वेन रथिनं यायादुदियाद्रथिनं रथी 010c व्यसने न प्रहर्तव्यं न भीताय जिताय च 011a नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् 011c जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः 012a साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत् 012c सव्रणो नाभिहन्तव्यो नानपत्यः कथञ्चन 013a भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः 013c चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् 013e निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः 014a तस्माद्धर्मेण योद्धव्यं मनुः स्वायम्भुवोऽब्रवीत् 014c सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् 015a यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः 015c आत्मानमात्मना हन्ति पापो निकृतिजीवनः 016a कर्म चैतदसाधूनामसाधुं साधुना जयेत् 016c धर्मेण निधनं श्रेयो न जयः पापकर्मणा 017a नाधर्मश्चरितो राजन्सद्यः फलति गौरिव 017c मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति 018a पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति 018c स वर्धमानः स्तेयेन पापः पापे प्रसज्जति 019a न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव 019c अश्रद्दधानभावाच्च विनाशमुपगच्छति 020a स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते 020c महादृतिरिवाध्मातः स्वकृतेन विवर्धते 021a ततः समूलो ह्रियते नदीकूलादिव द्रुमः 021c अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि 021e तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः