001 वामदेव उवाच 001a अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः 001c जघन्यमाहुर्विजयं यो युद्धेन नराधिप 002a न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति 002c न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते 003a यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः 003c सन्तुष्टपुष्टसचिवो दृढमूलः स पार्थिवः 004a यस्य योधाः सुसन्तुष्टाः सान्त्विताः सूपधास्थिताः 004c अल्पेनापि स दण्डेन महीं जयति भूमिपः 005a पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः 005c सधना धान्यवन्तश्च दृढमूलः स पार्थिवः 006a प्रभावकालावधिकौ यदा मन्येत चात्मनः 006c तदा लिप्सेत मेधावी परभूमिं धनान्युत 007a भोगेष्वदयमानस्य भूतेषु च दयावतः 007c वर्धते त्वरमाणस्य विषयो रक्षितात्मनः 008a तक्षत्यात्मानमेवैष वनं परशुना यथा 008c यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते 009a न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः 009c क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते 010a यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः 010c यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् 011a नैनमन्येऽवजानन्ति नात्मना परितप्यते 011c कृत्यशेषेण यो राजा सुखान्यनुबुभूषति 012a इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः 012c उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते 013 भीष्म उवाच 013a इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः 013c तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः